________________
जयपराजयव्यवस्था
५।२१]
३५५ सन्देहः । यदा वादी तथैव परिहरति तदा पराजयः । अपरिहारे अन्यथापरिहारे वा वाद्येव पराजीयते *"ऐकान्तिकपराजयाद्वरं सन्देहः" इति प्रतिवादी वैतण्डिको भूत्वा प्रतिज्ञादिवचनमुद्भावयति । तथा वाद्यपि तस्मिन् उद्भाविते तथा यदि उत्तरं न वदति तर्हि तस्य ऐकान्तिकः पराजयः स्यात् , उत्तरमात्रे तु उक्ते सन्देहः । यदा परः तथैव दूषयेत् जयवान् स्यात् अदूषणे अन्यथादूषणे वा पराजयवान् इति ऐकान्तिकपराजयवान् इति, ऐकान्तिकपराजयाद् ५ वरं सन्देहः इति वाद्यपि वैतण्डिको भूत्वा उत्तरमात्रं द[दा]तीति नाथोनरो (नान्यतरो) वैतण्डिकः अपि तु द्वावपि वैतण्डिकाविति । एतदेव दर्शयन्नाह-न वै इत्यादि । न वै नैव तदन्यतरो वादिप्रतिवादिनोः अन्यतरः वैतण्डिकः किन्तु द्वौ अपि वैतण्डिको इति भावः । कुतः ? इत्याह-प्रत्युच्चाय्यन्ते द्य (च्चार्य इत्यादि), अन्यथा अननुभाषणं निग्रहस्थानं स्यात् । किम् ? इत्याह-साधनं वादि हेच्छं (हेतुं) तत्किं कुर्वतः ? दूषयतः प्रतिज्ञादिवचनोपालम्भच्छलेन निरा- १० कुर्वतः । कस्य ? इत्याह-प्रतिवादिनः। तस्य किम् ? इत्याह- [२८८ क] प्रति (प्रत्य)वस्थानात् निराकरणात् । केन ? इत्याह-स्वयम् आत्मना वादिनापि । कथम् ? इत्याहकथञ्चित् यत्किश्चिद् उत्तरमभिधाय इति शब्दः पूर्वपक्षसमाप्तौ, 'वा' इति पराभिप्रायद्योतने । अत्र दूषणमाह-तथा तेन उक्तप्रकारेण तयोर्वादिप्रतिवादिनोवैतण्डिकत्वे अभ्युपगम्यमाने वादन्यायः परिपूरिपूर्णत्यात् (परिपूर्णः स्यात् ) उपहसनपरमेतत् । वितण्डैव स्यात् न वादन्याय १५ इत्यर्थः ।
किञ्च, इदमसिद्धं द्रव्यो (द्वयोः) यदि प्रतिज्ञादिवचनात् समीचीनसाधनवाद्यपि वादी निग्रहाहः कथमसौं जेता तद्वचनरहितसाधनवचनेन इति चेत् ? एतत् पूर्वार्धेन प्रदर्य उत्तरार्धेन च दूषयन्नाह-कारिकां जल्पाक इद का (इत्यादि)।
[जल्पाकः साधयन्नर्थमनधिकोत्तया जयत्यसौ।
प्रतिवादी किन्निगृह्यत न प्रत्युच्चारणादिभिः ॥२१॥ वादिनः 'साधन[ नाङ्गवचनात् ] प्रतिवादिनो निग्रहस्थानप्राप्तेः तथानुपपत्तेरिति फल्गुप्रायमिति ; साधनप्रत्युच्चारणवत् दोषान्तरोक्ति-अनुक्तिप्रभृतिभिः दोषवत्साधनवादिनापि पुनर्निगृह्येत । तदेतेन अप्रतिभादिः प्रत्युक्तः । कस्यचिद् विप्रतिपत्तौ अप्रतिपत्तौ वा परस्य स्वपक्षसिद्धिमन्तरेण जयाभावात् कः केन निगृह्यते ? यत्पुनः २५ इष्टस्य अर्थसिद्धिः साधनं च तदङ्ग पक्षधर्मत्वादिविलक्षणास्त्रयो हेतवो गमकाः तदविनाभावनियमात् । तत्र पक्षधर्मत्वकार्यत्वपूर्वत्वादिलक्षणम् असाधनम् , अन्यथानुपपत्तिमनिश्चिन्वानः साध्यसाधनयोस्तादात्म्यतदुत्पत्ती कथं प्रतिपद्येत ? तत्प्रतिपत्तौ किं सम्बन्धान्तरेण अन्तर्गडुना ?]
(6) "तथापि ऐकान्तिकपराजयाद्वरं सन्देह इति युक्तं तत्प्रयोगकरणेन स्फुटाटोपकरणम् ।"-न्यायम० प्रमे० पृ० १५२ । (२) प्रतिज्ञादिवचने । (३) प्रतिवादी। (४) "विज्ञातस्य परिषदा त्रिरभिहितस्यापि अप्रत्युचारणमननुभाषणम्"-न्यायसू० ५।२।१६ । (५) वादी। (६) प्रतिज्ञादिवचन । एतदन्तर्गतः पाठः पुनर्लिखितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org