________________
बृहद्गच्छीय लेख समुच्चय
२६७ दोपचारो ल्वण पुलकततिः पुष्कराणां छलेन ॥ ८ ॥ तत्पितृव्य जतयाय बांधवः श्री महीदुर जनिष्ट भूपतिः। यत्कृपाण लतिकामुपेयुषां छायया विरहितं मुखं द्विषां ॥ ९ ॥ जज्ञे कांतस्तदनुचभुवस्तत्तनुजो श्वपालः काल: क्रूरे द्विषि सुचरिते पूर्ण चंद्रायमानः। यः संलग्नो न खलु तमसा नैव दोषाकरात्मा तेजो भक्तः क्वचिदपि न य: किंच मित्रोदयेषु ॥ १० ॥ केयूराग्र निविष्ट रत्न निकर प्रोद्यत्प्रभाडंवरं व्यक्तं संगर रंग मंडपतले यं वैरिलक्ष्मीः श्रिता। वीरेषु प्रसृतेषु तेषु रजसा नीतेषु दुर्लक्ष्यतां लब्धो पायबलापि निर्मल गुणैर्वश्या प्रशस्या कृतिः ।। ११ ॥ पुत्रस्तस्याहिल इति नृपस्तन्मयूख च्छलेन स्रष्टा यस्य व्यधित यशसां तेजसा तोलनां नु । गंगा तोले शशि तपनयो भतश्चारु चेले मध्यस्थायि ध्रुवमिष लसत् कंटके कौतुकेन ॥ १२ ।। गुर्जराधिपति भीम भूभुजः सैन्य पूर मजयद्रणेषु यः । शंभुवत् त्रिपुर संभवं बलं वाडवानल इवांबुधे जेलं ॥ १३ ॥ सैन्या क्रांता खिल वसुमती मंडलस्तत्पितृव्यः श्रीमान् राजा भवदथ जिताराति मल्लो णहिल्लः। भीम क्षोणी पति गज घटा येन भग्ना रणाग्रे हृद्यार्थी भोनिधि रघु कृते वहे पंक्तिः खलानां ।।१४।। अंभोजानि मुखान्यहो मृग द्वशां चंद्रो दयानां मुदो लक्ष्मीर्यत्र नरोत्तमानुसरण व्यापार पारंगमा। पानानि प्रसभं शुभानि शिखरि श्रेणीव गुप्यद्गुरुस्तोमो यस्य नरेश्वरस्य तुलनां सेनांबु राशेर्दधौ ॥ १५ ॥ उव्वीरुद विटपावलंब सुगृही हर्येषु दत्त्वा दृशं ध्यातात्यंत मनोहराकृति निज प्रासाद वातायन: । भूस्फोटानि वनांतरेषु विततान्या लोक्य हाहेति वाक् सस्मारा तपवारणानि शतशो यद्वैरि राज व्रज - ॥ १६ ॥ दृष्टः कैर्न चतुर्भुजः स समरे शाकंभरी यो बलाज्जग्राहानुजधान मालव पतेर्भोजस्य साढाह्वयं । दंडाधीशम पार सैन्य विभवं तीव्र तुरुष्कं च यः साक्षाद्विष्णुर साधनीय यशसा शृंगारिता येन भूः ॥ १७ ॥ जज्ञे भूभृत्तदनु तनयस्तस्य बाल प्रसादो भीमक्ष्मा भृच्चरण युगली मईन व्याजतो यः । कुर्वन्पीडा मति बलतया मोचयामास कारागाराद् भूमी पति मपि तथा कृष्णदेवाभिधानं ॥ १८ ॥ श्रीकोजलदभ्रमं दधुरहो सैन्येस्य सेवारसा यातर्तुप्रतिमे समुज्ज्वल पटा वासा मराल श्रियं । कंपं वायु वशेन केतु निवहाः शस्यानुकारं च ते सङ्गीतानि च कोकिलारव तुलां चित्तेतु तापं द्विषः ॥ १९ ॥ श्रीमांस्तस्याजनि नर पतिर्बाधवो जिंदुराजो य: संडेरेऽर्क इव तिमिरं वैरि वृंदं विभेद । यस्य ज्योति: प्रकरमभितो विद्विषः कौशिकाभा द्रष्टुं शक्ता न हि गिरि गुहा मध्यमध्या श्रितास्तत् ॥ २० ॥ गच्छतीनां रिपु मृगदृशां भूषणानां प्रपाते वाष्पासायैर्घनतति तुलां बिभ्रतीनामरण्ये। दूर्वा भ्रांतिं मरकत मणि श्रेणयोयत्प्रयाणे तांबूलीय भ्रममिव चिरं चक्रिरे पद्म रागाः ॥ २१ ॥ पृथ्वीं पालयितुं पवित्र मतिमान् यः कषुकाणां करं मुंचन् प्राप यशांसि कुंद धवला न्यानंद हृद्याननः । पृथ्वी पाल इति ध्रुवंक्षिति पति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org