________________
हर्षवर्धनोपाध्यायनिवद्धः
[प्रथमा
मोहं विजित्य करणानि च संनिरुथ्य
यों भावयत्यपमलं परमात्मतत्त्वम् । साक्षात्कृताखिलपदार्थमपार्थितोद्यत्
कर्मप्रपञ्चमवतात् स जिनेन्द्रदेवः ।। इत्यादिकेति प्रतीहि ॥१७॥ अथ रागादिपरिणामेऽपि नासौ स्वरूपं प्रोज्झतीत्याविर्भावयति-- स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा
भजति विविधभा द्वेप-रागाद्युपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं
न खलु भवति चान्द्री ध्वान्तरूपा भरी चिः ॥१८॥ व्याख्या-अयं शुद्धरूपः शुद्धद्रव्यार्थिकनिरूपणया क्षीरोदकवत् कर्मपुद्गलसंश्लेपेऽपि स्वरूपापरित्यागाद् विशुद्धस्वभावः । चिदात्मा सत्त्वप्रमेयत्वाद्यनन्तधर्माधारत्वेऽपि चेतनयैवेतरद्रव्ययावृत्तिसम्भवादसाधारणगुणत्वख्यापनार्थं चिद्ग्रहणम् । द्वेपरागाद्युपाधेः स्वतः पृथग्भूतद्रव्यान्तरपौद्गलिकमोहोत्तरप्रकृतिभूताद् द्वेष-रागलक्षणादुपाधेः । आदिशब्देन द्रव्यान्तरभूता मिथ्यात्वादयोऽपि गृह्यन्ते, मिथ्यात्वादयो हि भावा जीवाजोवाभ्यां भाव्यमानत्वाजीवाजीवभूताद्वैततां जातिवर्तन्ते । अत एक जीवमिथ्यात्वमजीवमिथ्यात्वम्, जीवाविरतिरजीवाविरतिः, जीवकपायोऽजीपकपाय इत्यादि तन्त्रान्तरे गीयते । तत्र पौद्गलिककर्मणा भाव्यमाना अजीवा इत्युच्यन्ते, चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीवा इत्युच्यन्ते । तदत्र पौगलिका गृह्यन्ते । तल्लक्षणादुपलेषाद् यदपि स्फटिकमणिवि विविधभावं नानारूपतां भजति । तथाहि यथा स्फटिकमणिः परिणामस्वभावत्वे सति काञ्चन-कदली-पात्रादिविचित्रोपाश्रयवशात् पीत-हरितादिरूपतामास्कन्दति । तदपि अयम् आत्मा स्वं रूपं नैव जाहाति चिन्मात्रतां त्यक्त्वा अचिद्रूपतां नाऽऽपद्यते । कारणसहस्रेणापि स्वभावस्यापोहितुमशक्यत्वादिति भावः । एतदेवार्थान्तरन्यासेन द्रढयति न खलु इति । चान्द्री मरीचिन्तिरूपा न खलु भवति । एवं च रागाद्यात्मपरिणामानां पौद्गलिकमोहप्रकृतिविपाकजन्यत्वात् “कारणानुविधायि कार्यम्" [
] इति न्यायाद् असद्भूतव्यवहारेणाचेतनत्वमपि सिद्धमिति भावः । यत्तु 'मोहणकम्मसुदया' [समयसार, १.६८ ] इति समयसारीयगाथाव्याख्यानावसरे अमृतचन्द्रसूरिणा गुणस्थानातिदेशेन मार्गणास्थानादिप्रमुखाणामपि केषाञ्चिदौदयिकत्वेनाचेतनत्वमापा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org