________________
द्वात्रिंशिका
अध्यात्मबिन्दुः शरीरसंसर्गत एव सन्ति
वर्णादयोऽमी निखिलाः पदार्थाः । जाम्बूनदादेरुपधेरिव द्राग्
वैशद्यभाजि स्फटिके तरङ्गाः ॥१७॥ व्याख्या–अमी प्रत्यक्षदृश्या वर्णादयो निखिलाः पदार्थाः वर्ण-गन्धरस-स्पर्श-संस्थान-संहननादयः शरीरसंसर्गत एव सन्ति । तथाहि -- पुद्गलविपाकिकर्मोदयाजीवेन सह वपुषः परस्परावगाहलक्षणे सम्बन्धे सत्यपि उपयोगगुणविशिष्टत्यात्मनः स्वलक्षणेनैव समं व्याप्य-व्यापकभावसम्बन्धाद् अनलस्योष्ण्येनेव वर्णादिभिस्तादात्म्याभावात् स्वलक्षणत्वासिद्धौ न नाम वर्णादयः सन्ति, तथापि देहात्मनोः समावर्तितावस्थायां कनक-कलधौतयोरिव परमार्थत एकार्थत्वानुपपत्तावपि व्यवहारमुग्धानां पृथक स्वलक्षगानिर्ज्ञानाद् एकत्याध्यासेन जीवस्यैते वर्णादय इति मतिराविरस्ति । तन्मूलं च शरीरसम्बन्ध एवेति एवकारेण, 'मुष्यते एप पन्थाः' इतिवत् "तात्स्थ्यात् तदुपचारः" [ ] इति न्यायेन बन्धपर्यायेणावस्थितस्य वपुषो वर्णादयो जीवे व्यवहियन्ते न तु परमार्थतोऽमूर्तस्यासाधारणचैतन्यसर्वस्वस्य जीवस्य सन्ति केचन वर्णादय इति द्योत्यते । कस्मिन् क इव ? जाम्बूनदादेरुपधेः सकाशाद् वैशद्यभाजि स्फटिके तरङ्गा इव । यथा प्रकृत्या स्वच्छस्फटिकमणेर्जाम्बूनदाधुपाश्रयवशात् स्वच्छताविकारमात्रेण भाव्यमानाः पीततादिवर्णोर्मयो न नाम स्वरूपभूतास्तद्वद् आत्मनोऽपीति भावः । एवं चैतद् अप्रतिबुद्धोक्तं समाहितं द्रष्टव्यम् -
जीवो भवेन्नैव यदा शरीरं तीर्थङ्कराचार्यनुतिस्तदानीम् । सर्वापि मिथ्यैव भवेत् ततो हि देहात्मनोः साधुरभेद एव ॥ तथाहिवक्त्रं पूर्णशशाङ्ककान्तममलं स्वान्तं प्रशान्तं वपु
नेत्रे नीलसरोजपत्ररुचिरे वाणी सुधासारणी । दीप्तिर्यस्य च चण्डेरुक्प्रभृतिसज्ज्योतिष्मतां जित्वरी
भव्यान् पातु स विश्वविश्रुतयशास्तीर्थेशभट्टारकः ।। इत्यादिका व्यवहारस्तुतिरेव आत्मस्वरूपबोधकविशेषणालाभात् वक्त्र-स्वान्तादीनां पौद्गलिकत्वात् । तर्हि कीदृशी निश्चयस्तुतिरिति चेत् -
१ चण्डरुक् सूर्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org