SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका ] अध्यात्मविन्दुः शतो भेदमुत्पाद्य केनचिद् धर्मेणानुशासतः सूरै (रे) र्व्यवहारेणैव दर्शनं ज्ञानं चारित्रमित्युपदेशः संजाघटीति । यद्वक्ष्यते व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनादिति, यथा वा त्रस-स्थावरादयो य एते पर्यायास्ते सर्वेऽपि निश्चयेन सहजविजृम्भितानन्तज्ञानशक्तिहेतुकसर्वदाऽनपायिनिर्विकारस्वाभाविकजीवत्वभृतोऽप्यस्यैवानाद्यविद्यादूषिततयोद्भवत : कार्यरूपा इति मिश्रपरिणामात्मकेषु तेषु जीवत्वं प्रतिपाद्यते तदा तेषु जीवोऽयमिति बुद्ध्या करुणया सङ्घट्टन-मर्दन - हिंसनादीनि परिहरतः संसारनिस्तारो भवतीति महानुपकारः कृतः स्यात् । तीर्थप्रवृत्तेश्चैवमेव व्यवस्थितत्वादित्यनुपदमेव वक्ष्यते । एवं व्यवहारस्वरूपमभिधाय केवल्यवहारपक्षपातिनं दूषयति- जिनसमयेति । जिनो भगवान् पड्जीवकायनिशुम्भनव्यावृत्तः सर्वज्ञभट्टारकस्तस्य समयः सिद्धान्तः । तत्र विमूढः स्याद्वादरूपभगवदागमानभिज्ञ इत्यर्थः । कोऽसौ ? यः केवलं निरपेक्षम् व्यवहारं श्रितः । 1 अयमर्थः – निश्चयतो निरुपरागात्मतत्त्वमश्रद्दधानो धर्मानुरागेणोपलितचित्तभित्तिर्भूयो भूयः शुभोपयोगतया परिणमन् बन्धसाधनमपि व्रत तपःप्रभृतिकर्मकाण्डं मोक्षहेतुत्वेनाभ्युपयन् ' भिन्नसाध्य - साधनभावावलोकनेन निरन्तरं विद्यमानः प्रवचनजननीसमाराधननिविष्टदृष्टिः परीषहाद्युपनिपातेऽपि मनागप्यनुद्विजमानः सकलक्रियाकाण्डोत्तीर्णदृग्ज्ञानवृत्त्यैक्यपरिणतिरूपां ज्ञानचेतनां मनागप्यननुतिष्टन् समुपचितशुभकर्म भरमन्थरः सुरलोकादिक्लेशमनुभूय पुनः संसारमेव विशतीति केवलव्यवहारावलम्बिनः साध्यासिद्धिरेव । तदुक्तम् Jain Education International "चरण करणापहाणा ससमय - परमत्व ( रसमयमुक्क) वावारा । चरण-करणस्स सारं णिच्छयसुद्धं ण थाणंति ||" [ सन्मतिप्रकरण, ३.६७ ] अमुमित्युपलक्षणं केवलनिश्चयस्यापि । यः खलु केवलनिश्चयावलम्बी अबद्धस्पृष्टमात्मानं मन्यमानः सकलमपि क्रियाकाण्डमस्वभावत्वेनानाद्रियमाणः भिन्नसाध्य-साधनभावोपरतचित्तवृत्तिः अभिन्नसाध्य-साधनभावमनासादयन्नन्तराल एवं विषण्णः पारमेश्वरीकर्मचेतनां पुण्यबन्धभयेनानङ्गीकुर्वाणः परमनैष्कर्म्यरूपज्ञानचेतनास्वादं स्वप्नेऽप्यसम्भावयन् प्रमादपरतन्त्रः सुप्तोन्मत्तमूच्छित इव प्रकामं पापबन्धमेव प्रकुरुते । उक्तं च—– “निच्छयमालबंता निच्छयदो निच्छयं अयाणंता । नासंति चरण-करणं बाहिरचरणालसा केई ||" [ ओधनियुक्ति गा०७६१] १ अभ्युपगच्छन्- स्वीकुर्वन् इति भावः । २ For Personal & Private Use Only www.jainelibrary.org
SR No.004030
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorMitranandvijay, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy