________________
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा
दीपप्रभामणिभ्रान्तिर्विसंवादिभ्रमः स्मृतः । मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥ [
तद्वदत्राप्येकेन्द्रियशरीरे जीवोऽयमिति बुद्ध्या प्रवर्तमानस्यातस्मिंस्तद्ग्रहरूपत्वाद् विपर्ययत्वेऽपि संवादिभ्रमत्वाज्जीवपदार्थबोधो निर्बाध इति एतन्नयस्यैवं विषयत्वाच्च । अयं हि कचिद् द्रव्ये द्रव्यमारोप्य पदार्थ व्यवस्थापयति, यथैकेन्द्रियादिजीवोऽयम् इति, अत्र हि पुद्गलद्रव्ये जीवद्रव्यस्योपचारः १। क्वचिद् द्रव्ये गुणमारोपयति, यथा ज्ञेये जीवे [ ऽजीवे ] च ज्ञानमिति २। क्वचिद् द्रव्ये पर्यायमारोपयति, यथा परमाणुर्बहुप्रदेशीति । परमाणोहि द्रव्येणैकप्रदेशमात्रत्वेऽपि द्विप्रदेशायुद्भवहेतुभूततथाविधस्निग्धरूक्षत्वपरिणामशक्तियोगित्वादनेकप्रदेशत्वमिति ३॥ एवं गुणे गुणारोपः, यथा मूर्तं मतिज्ञानं मूर्तक्षायोपशमिकोपयोगशक्तिजन्यत्वान्मूर्तेन्द्रियजन्यत्वाच्चेति ।। गुणे द्रव्यारोपः, यथा शुक्ल: पटः ५। गुणे पर्यायोपचारः, यथा ज्ञानं ज्ञेयाकारमिति ६। पर्याये पर्यायोपचारः, यथा एतस्येदं प्रतिबिम्बमिति ७। पर्याये द्रव्योपचारः, यथा स्थूलस्कन्ध अहो पुद्गलद्रव्यमिति ८। पर्याये गुणोपचारः यथा उत्तमं वपुः पश्यतः सुन्दर(रं) वपुरिदमिति ९। एवं नवधा वस्तु व्यवहरन्नव्युत्पन्नव्युत्पत्त्यङ्गं भवतीति । एतदेवाह-'अवुधजनविबोधार्थम्' इति अबुधा यथावद् वस्तुस्वरूपानभिज्ञेया ये जना लोकास्तेषां विबोधार्थम् अस्य व्यवहारस्य उपदेशः प्रणयनम् । अयं हि अवुधानां म्लेच्छभापेव म्लेच्छानां परमार्थाभिधायकत्वादपरमार्थोऽपि वस्तुस्वरूपावबोधार्थं दर्शितः । तथाहि—यथा म्लेच्छस्य 'स्वस्ति' इत्यभिहिते सति किमस्य वाच्यमित्यनवबोधे न कदाचिदपि पदार्थस्फूर्तिः स्यात् तथाऽबुधस्यापि 'आत्मा' इति उक्ते किमस्य वाच्यमित्यनवबोधे न काचिदपि पदार्थस्फूर्तिः स्यात् । यदा तु तद्भाषाविदा केनचित् स्वस्तिपदस्य कल्याणोऽरोगाद्यभिधेयमभिधीयते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यत एव तथाऽवुधस्यापि निश्चय-व्यवहारविदा सद्भूतासद्भूतव्यवहारमास्थाय अतति दर्शन-ज्ञानचारित्राणीत्यभेदात्मके वस्तुनि भेदमुत्पाद्य, यथा वा अतति तांस्तान् स्थावर-जङ्गमपर्यायानिति विकारिणं प्रदाभिधेयं प्रतिपाद्यते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यते । यतो ह्यनन्तधर्मात्मकस्य वस्तुनोऽनभिज्ञस्य विनेयस्य धर्म-धर्मिणोनिश्चयतोऽभेदेऽपि व्यपदे
१ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति । २ योग ला । ३ वस्तुस्वरूपम् अनभिज्ञेयं येषां ते इति समासविग्रहः । ४ अतति इति आत्मा इति व्युत्पत्तिदर्शनाय अत्र 'अतति' इति क्रियापदं न्यस्तम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org