________________
१०२. रामधम्मसवणविहाणपव्वं
तं पेच्छिऊण वाविं, तणकट्ठसुपूरियं अइमहन्ती । पउमो समाउलमणो, चिन्तेइ बहुप्पयाराई ॥१॥ कत्तो हं वइदेहि, पेच्छिस्सं विविहगुणसमाइण्णं । नियमेण एत्थ मरणं, पाविहिइ हुयासणे दित्ते ॥२॥ जंपिहिइ जणो सव्वो, जह एसा जयणंदणा सीया । अववायजणियदुक्खा, मया य जलणं पविसिऊणं ॥३॥ तइया हीरन्तीए, नेच्छन्तीए य सीलकलियाए । लङ्काहिवेण सीसं, किं न लुय मण्डलग्गेणं ? ॥४॥ एवंविहाए मरणं, जइ होन्तं तत्थ जणयतणयाए । निव्वडिओ सीलगुणो, होन्तो य जसो तिहुयणम्मि ॥५॥ अहवा जं जेण जहा, मरणं समुवज्जियं सयललोए । तं तेण पावियव्वं, नियमेण न अन्नहा होइ ॥६॥ एयाणि य अन्नाणि य, चिंतन्तो जाव तत्थ पउमाभो । चिट्ठइ ताव हुयवहो, पज्जलिऊणं समाढत्तो ॥७॥ चण्डाणिलाहएणं, धूमेणं बहलकज्जलनिभेणं । छन्नं चिय गयणयलं, पाउसकाले व्व मेहेहिं ॥८॥ असमत्थो च्चिय दटुं, तहाविहं मेहिलीए उवसग्गं । सिग्घं कियालुयमणो, दिवायरो कत्थवि पलाणो ॥९॥ धगधगधगेन्तसद्दो, पज्जलिओ हुयवहो कणयवण्णो । गाउयपरिमाणासु य ,जालासु नहं पदीवेन्तो ॥१०॥ किं होज्ज दिणयरसयं, समुग्गय ? किं व महियलं भेत्तुं । उप्पायनगवरिन्दो, विणिग्गओ दुस्सहपयावो ॥११॥
|| १०२. रामधर्मश्रवणविधानपर्वम् ।
तां दृष्ट्वा वापिं तृणकाष्टसुपूरितामतिमहतीम् । पद्मः समाकुलमनाश्चिन्तयति बहुप्रकाराणि ॥१॥ कुतोऽहं वैदेहीं द्रक्ष्यामि विविधगुणसमाकीर्णाम् । नियमेनात्र मरणं प्राप्स्यति हुताशने दीप्ते ॥२॥ जल्पिस्यति जनः सर्वो यथैषा जनकनन्दना सीता । अपवादजनितदुःखा मृता च ज्वलनं प्रविश्य ॥३॥ तदा ह्रीयमाण्या नेच्छन्त्याश्च शीलकलितायाः । लङ्काधिपेन शीर्ष किं न लुतं मण्डलाग्रेण ? ॥४॥ एवंविधाया मरणं यद्यभविष्यत्तत्र जनकतनयायाः । निवर्तितः शीलगुणोऽभविष्यच्च यशस्त्रिभुवने ॥५॥ अथवा यद्येन यथा मरणं समुपार्जितं सकललोके । तत्तेन प्राप्तव्यं नियमेन नान्यथा भवति ॥६॥ एतानि चान्यानि च चिन्तयन् यावत्तत्र पद्माभः । तिष्ठति तावद्धतवह: प्रज्वलितुं समारब्धः ॥७॥ चण्डानिलाहतेन धूम्रण बहलकज्जलनिभेन । छनमेव गगनतलं प्रावृट्काले इव मेघैः ॥८॥ असमर्थ एव दृष्टुं तथाविधं मैथिल्या उपसर्गम् । शीघ्रं कृपालुमना दिवाकरः कुत्रापि पलायनः ॥९॥ धगधगधगच्छब्दः प्रज्वलितो हुतवह: कनकवर्णः । गव्यूतपरिमाणाभिश्च ज्वालाभिर्नभः प्रदीपयन् ॥१०॥ किं भवेद्दिनकरशतं समुद्गतं ? किं वा महितलं भित्वा । उत्पातनगवरेन्द्रो विनिर्गतो दुःषहप्रतापः ॥११॥
१. ०महन्तं-प्रत्य० । २. व्यनंदिणी-मु० । ३. मत्थो इव दटुं तहाविहं महिलियाए उ०-मु०। ४. सिग्धं दयालुय०म० ।
For Personal & Private Use Only
Jain Education Intemational
www.jainelibrary.org