________________
६०३
रामसोयपव्वं -९६/१२-३७ एवं चिय संदिटुं, सीयाए नेहनिब्भिरमणाए । संखेवेण नराहिव !, तुज्झ मए साहियं सव्वं ॥२५॥ सामिय ! सहावभीरू, अहिययरं दारुणे महारण्णे । बहुसत्तभीसणरवे, जणयसुया दुक्करं जियइ ॥२६॥ सेणावइस्स वयणं, सोऊणं राहवो गओ मोहं । पडियारेण विउद्धो, कुणइ पलावं पिययमाए ॥२७॥ चिन्तेऊण पवत्तो, हा ! कहें खलयणस्स वयणेणं । मूढेण मए सीया, निच्छूढा दारुणे रण्णे ॥२८॥ हा पउमपत्तनयणे !, हा पउममुही ! गुणाण उप्पत्ती । हा पउमगब्भगोरे !, कत्तो त्ति पिए ! विमग्गामि ॥२९॥ हा सोमचन्दवयणे!, वायं मे देहि देहि वइदेहि ! । जाणसि य मज्झ हिययं, तुह विरहे कायरं निच्चं ॥३०॥
निद्दोसा सि मयच्छी !, किवाविमुक्केण उज्झिया सि मए।
रणे उत्तासणए, न य नज्जइ किं पि पाविहिसि ? ॥३१॥ हरिणि व्व जूहभट्ठा, असण-तिसावेयणापरिग्गहिया । वकिरणसोसियङ्गी, मरिहिसि कन्ते महारणे ॥३२॥ किं वा वग्घेण वणे, खद्धा सीहेण वाइघोरेणं ? । किं वा वि धरणिसइया, अक्कन्ता मत्तहत्थीणं? ॥३३॥ पायवखयंकरेणं, जलन्तजालासहस्सपउरेणं । किं वणदवेण दड़ा, सहायपरिवज्जिया कन्ता ॥३४॥ को रयणजडीण समो, होइ नरो सयलजीवलोयंमि ? । जो मज्झ पिययमाए, आणइ वत्ता वि विहलाए ॥३५॥ पुच्छइ पुणो पुणो च्चिय, पउमो सेणावई पयलियंसू । कह सा घोरारण्णे, धरिहिइ पाणा जणयधूया ? ॥३६॥ एव भणिओ कयन्तो, लज्जाभरपेल्लिओ समुल्लावं । न य देइ ताव रामो, कन्तं सरिउंगओ मोहं ॥३७॥
एवमेव संदिष्ट: सीतया स्नेहनिरभरमनसा । संक्षेपेण नराधिप ! तव मया कथितं सर्वम् ।।२५।। स्वामिन् ! स्वभावभीरुरधिकतरं दारुणे महारण्ये । बहुसत्त्वभीषणरवे जनकसुता दुष्करं जीवति ॥२६॥ सेनापतेर्वचनं श्रुत्वा राघवो गतो मोहम् । प्रतिचारेण विबुद्धः करोति प्रलापं प्रियतमायै ॥२७॥ चिन्तयितुं प्रवृत्तो हा ! कष्ट खलजनस्य वचनेन । मूढेन मा सीता निष्काषिता दारुणे ऽरण्ये ॥२८॥ हा पद्मपत्रनयने ! हा पद्ममुखि ! गुणानामुत्पत्तिः । हा पद्मगर्भगौरे ! कुत इति प्रिये ! विमार्गयामि ॥२९॥ हा सोमचन्द्रवदने ! वाचं मे देहि देहि वैदेहि ! । जानासि च मम हृदयं तव विरहे कातरं नित्यम् ॥३०॥ निर्दोषाऽसि मृगाक्षि ! कृपाविमुक्तेनोज्झिताऽसि मया । अरण्य उत्त्रासने न च ज्ञायते किमपि प्राप्स्यसि ? ॥३१॥ हरिणीव यूथभ्रष्टाऽशन-तृषावेदनापरिगृहीता । रविकिरणशोषिताङ्गी मरिष्यस्येकान्ते महारण्ये ॥३२॥ किं वा व्याघेण वने भक्षिता सिंहेन वातिघोरेण ? । किं वाऽपि धरणिशयिताऽऽक्रान्ता मत्तहस्तिना? ॥३३॥ पादपक्षयंकरेण ज्वलज्ज्वालासहस्रप्रचुरेण । किं वनदवेन दग्धा सहायपरिवर्जिता कान्ता ॥३४॥ को रत्नजटिना समो भवति नरः सकलजीवलोके ? । यो मम प्रियतमाया आनयति वार्तामपि विह्वलायाः ॥३५॥ पृच्छति पुनः पुनरेव पद्मः सेनापति प्रगलिताश्रुः । कथं सा घोरारण्ये धरिष्यति प्राणाञ्जनकदुहिता ? ॥३६॥ एवं भणितः कृतान्तो लज्जाभरपीडितः समुल्लापम् । न च ददाति तावद्रामः कान्तां स्मृत्वा गतो मोहम् ॥३७||
१. ०द्धो, विलवइ सोए पिय०-प्रत्य० ।
Jain Education Intemalional
For Personal & Private Use Only
www.jainelibrary.org