________________
सीयानिव्वासणपव्वं - ९४ / ९० - १०८
पोण्डरियपुराहिवई, गयबन्धत्थे समागओ रणे । घेत्तूण कुञ्जरवरे निग्गच्छइ साहणसमग्गो ॥१०३॥ ताव य जे तस्स ठिया, पुरस्सरा गहियपहरणावरणा । सोऊण रुण्णसद्दं, सहसा खुभिया विचिन्तेन्ति ॥ १०४॥ गय-महिस-सरह-केसरि - वराह - रुरु- चमरसेविए रणे ।
का एसा अइकलुणं, रुवइ इहं दुक्खिया महिला ? ॥ १०५ ॥
किं होज्ज देवकन्ना, सुरखइसावेण महियले पडिया ? । कुसुमाउहस्स किं वा, कुविया य रई इहोइण्णा ? ॥१०६॥ एवं सवियक्कमणा, नवि ते वच्चन्ति तत्थ पुरहुत्ता । सव्वे वि भउव्विग्गा, वग्गीभूया य चिट्ठन्ति ॥ १०७॥ तत्थ वणे महयं पि बलं तं, महिलारुण्णसरं सुणिऊणं । जायभयं अइचञ्चलनेत्तं, खायजसं विमलं पि निरुद्धं ॥ १०८ ॥
॥ इइ पउमचरिए सीयानिव्वासणविहाणं नाम चउणउयं पव्वं समत्तं ॥
पोण्डरिकपुराधिपति र्गजबन्धार्थे समागतोऽरण्ये । गृहीत्वा कुञ्जरवरान्निर्गच्छति साधनसमग्रः ॥१०३॥ तावच्च ये तस्य स्थिताः पुरःसरा गृहीतप्रहरणावरणाः । श्रुत्वा रुदनशब्दं सहसा क्षुभिता विचिन्तयन्ति ॥१०४॥ गज-महिष-शरभ-केसरि - वराह - रुरु - चमरसेविते ऽरण्ये । कैषाऽतिकरुणं रोदितीह दुःखिता महिला ? ॥१०५॥ किं भवेद्देवकन्या सुरपतिशापेन महितले पतिता ? । कुसुमायुधस्य किं वा कुपिता च रतिरिहावतीर्णा ? ॥१०६॥ एवं सविकल्पमना नापि ते गच्छन्ति तत्राभिमुखाः । सर्वेऽपि भयोद्विग्ना व्यग्रीभूताश्च तिष्ठन्ति ॥ १०७॥ तत्र वने महदपि बलं तन्महिलारुदनस्वरं श्रुत्वा । जातभयमतिचञ्चलनेत्रं ख्यातयश: संविमलमपि निरुद्धम् ॥१०८॥ ॥ इति पद्मचरिते सीतानिर्वासनविधानं नाम चतुर्नवतितमं पर्वं समाप्तम् ॥
१. रणं - प्रत्य० । २. पुरिहुत्ता - प्रत्य० । ३. महिलियरुण्णसरं निसुणेउं - मु० ।
Jain Education International
For Personal & Private Use Only
५९५
www.jainelibrary.org