________________
| ९४. सीयानिव्वासणपव्वं
अह सो एयट्ठमणं, काऊणं लक्खणस्स पडिहारं । पेसेइ पउमनाहो, जणवयपरिवायपरिभीओ ॥१॥ पडिहारसहिओ सो, सोमित्ती आगओ पउमनाहं । नमिऊण समब्भासे, उवविट्ठो भूमिभागम्मि ॥२॥ भूमीगोयरसुहडा खयरा सुग्गीवमाइया एत्तो । अन्ने वि जहाजोगं, आसीणा कोउहल्लेणं ॥३॥ काऊण समालावं, खणन्तरं लक्खणस्स बलदेवो। साहइ जणपरिवायं, सीयाए दोससंभूयं ॥४॥ सुणिऊण वयणमेयं, जंपइ लच्छीहरो परमरुट्ठो । मिच्छं करेमि पहई , लुयजीहं तक्खणं चेव ॥५॥ मेरुस्स चूलिया इव, निक्कम्पा सीलधारिणी सीया। लोएण निग्घिणेणं, कह परिवायरिंगणा दड्डा ? ॥६॥ लोयस्स निग्गहं सो, समुच्छहन्तो समहुरवयणेहिं । संथाविओ कणिट्ठो, रामेणं बुद्धिमन्तेणं ॥७॥ उसभ-भरहोवमेहिं, इक्खागकुलुत्तमेहिं बहवेहिं । लवणोयहिपेरन्ता भुत्ता पुहई नरिन्देहिं ॥८॥ आइच्चजसाईणं, निवईण रणे अदिन्नपिट्ठीणं । ताण जसेण तिहुयणं, अलंकियं वित्थयबलेणं ॥९॥ एयं इक्खागकुलं, ससिकरधवलं विलोयविक्खायं । मज्झ घरिणीए लक्खण !, कलङ्कियं अयसपङ्केणं ॥१०॥ ताव य किंचि उवायं, करेहि सोमित्ति ! कालपरिहीणं । जाव न वि हवइ मज्झ वि, दोसो सीयाववाएणं ॥११॥
९४. सीतानिर्वासनपर्वम्
अथ स एतदर्थमनः कृत्वा लक्ष्मणस्य प्रतिहारम् । प्रेषयति पद्मनाभो जनपदपरिवादपरिभीतः ॥१॥ प्रतिहारशब्दायितः स सौमित्रिरागत: पद्मनाभम् । नत्वा समभ्यास उपविष्टो भूमिभागे ॥२॥ भूमिगोचरसुभटाः खेचराः सुग्रीवादय इतः । अन्येऽपि यथायोगमासीनाः कौतूहलेन ॥३॥ कृत्वा समालापं क्षणान्तरं लक्ष्मणस्य बलदेवः । कथयति जनपरिवादं सीतायाः दोषसंभूतम् ॥४॥ श्रुत्वा वचनमेतज्जल्पति लक्ष्मीधरः परमरुष्टः । मिथ्यां करोमि पृथिवीं लुप्तजीह्वां तत्क्षणमेव ।।५।। मेरोश्चूलिकैव निष्कम्पा शीलधारिणी सीता । लोकेन निघृणेन कथं परिवादाग्निना दग्धा ? ॥६॥ लोकस्य निग्रहं स समुत्सहमानः समधुरवचनैः । संस्थापितः कनिष्ठो रामेण बुद्धिमता ॥७॥ ऋषभ-भरतोपमैरिक्ष्वाकुकुलोत्तमै बहूभिः । लवणोदधिपर्यन्ता भुक्ता पृथिवी नरेन्द्रैः ॥८॥ आदित्ययशसादिना नृपतिना रणे ऽदत्तपृष्टेन । तेषां यशसा त्रिभुवनमलड्कितं विस्तरबलेन ।९।। एतदिक्ष्वाककुलं शशिकरधवलं त्रिलोकविख्यातम् । मम गृहिण्या लक्ष्मण ! कलङ्कितमयश:पड्केन ॥१०॥ तावच्च किञ्चदुपायं कुरु सौमित्रे ! कालपरिहीणम् । यावन्नापि भवति ममापि दोषः सीताऽपवादेन ॥११॥
१. जंपइ जण०-प्रत्य० । २. ०ई हयजीहं तक्खणं सव्वं-प्रत्य० । ३. लुब्भवेहिं बहुएहि-प्रत्य० । ४. अदिट्ठपट्ठीणं-मु० ।
Jain Education Interational
For Personal Private Use Only
www.jainelibrary.org