________________
५८६
पउमचरित जारिसकम्मायारो, हवइ नरिन्दो इहं वसुमईए । तारिसनिओगनिरओ, अहियं चिय होइ सव्वजणो ॥२८॥ एव भणन्तस्स पभू, जणस्स अइदुट्ठपावहिययस्स । राहव ! करेहि संपइ, अइरा वि य निग्गहं घोरं ॥२९॥ सोऊण वयणमेयं, वज्जेण व ताडिओ सिरे रामो । लज्जाभरोत्थयमणो परमविसायं गओ सहसा ॥३०॥ चिन्तेऊण पवत्तो, हा ! कटुं कारणं इमं अन्नं । जायं अइदुव्विसहं, सीयाअववायसंबन्धं ॥३१॥ जीए कएण रण्णे, अणुहूयं विरहदारुणं दुक्खं । सा सीया कुलयन्दं, मह अयसमलेण मइलेइ ॥३२॥ जीसे कज्जेण मए, विवाइओ रक्खसाहिवो समरे । सा मज्झ अयसमइलं, सीया जसदप्पणं कुणइ ॥३३॥ जुत्तं चिय भणइ जणो जा परपुरिसेण अत्तणो गेहे। नीया पुणो वि यमए, इहाणिया मयणमूढेणं ॥३४॥ अहवा को जुवईणं, जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो च्चिय, जाण सरीरे वसइ कामो ॥३५॥ मूलं दुच्चरियाणं, हवइ य नरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं, वज्जेयव्वा सया नारी ॥३६॥ धन्ना ते सापुरिसा, जे च्चिय मोत्तूण निययजुवईओ। पव्वइया कयनियमा, सिवमयलमणुत्तरं पत्ता ॥३७॥ एयाणि य अन्नाणि य, चिन्तेन्तो राहवो बहुविहाई । न य आसणे न सयणे, कुणइ धिइं नेव वरभवणे ॥३८॥
नेहा-ऽववायभयसंगयमाणसस्स, वामिस्सतिव्वरसवेयवसीकयस्स । रामस्स धीरविमलस्स वि तिव्वदुक्खं, जायं तया जणयरायसुयानिमित्तं ॥३९॥
॥ इइ पउमचरिए जणचिन्ताविहाणं नाम तेणउयं पव्वं समत्तं ॥ यादृशकर्माचारो भवति नरेन्द्र इह वसुमत्याम् । तादृशयोगनिरतोऽधिकमेव भवति सर्वजनः ॥२८॥ एवं भणतः प्रभो जनस्यातिदुष्टपापहृदयस्य । राघव ! कुरु संप्रत्यचिरादपि च निग्रहं घोरम् ॥२९॥ श्रुत्वा वचनमेतद्वज्रेणेव ताडितः शिरसि रामः । लज्जाभरखिन्नमनाः परमविषादं गतः सहसा ॥३०॥ चिन्तयितुं प्रवृत्तो हा ! कष्टं कारणमिदमन्यम् । जातमतिदुर्विषहं सीताऽपवादसम्बन्धम् ॥३१॥ यस्याः कृतेनारण्ये अनुभूतं विरहदारुणं दुःखम् । सा सीता कुलचन्द्रं ममायशोमलेन मलिनयति ॥३२॥ यस्याः कार्येण मया विपादितो राक्षसाधिपः समरे । सा ममायशोमलिनं सीता यशोदर्पणं करोति ॥३३।। युक्तमेव भणति जनो या परपुरुषेणात्मनो गृहे । नीता पुनरपि च मयेहानीता मदनमूढेन ॥३४॥ अथवा को युवतीनां जानाति चरितं स्वभावकुटिलानाम् । दोषाणामाकर एव यासां शरीरे वसति कामः ॥३५।। मूलं दुश्चरितानां भवति च नरकस्य वर्तनी विपुला । मोक्षस्य महाविनं वर्जितव्या सदा नारी ॥३६।। धन्यास्ते सत्पुरुषा ये एव मुक्त्वा निजयुवतीः । प्रव्रजिताः कृतनियमाः शिवमचलमनुत्तरं प्राप्ताः ॥३७।। एतानि चान्यानि च चिन्तयन्राघवो बहुविधानि । न चासने न शयने करोति धृति नैव वरभवने ॥३८।।
स्नेहापवादभयसंगतमानसस्य व्यामिश्रतीव्ररसवेदवशीकृतस्य । रामस्य धीरविमलस्यापि तीव्रदुःखं जातं तदा जनकराजसुतानिमित्तम् ॥३९॥ ॥इति पद्मचरिते जनचिन्ताविधानं नाम त्रिनवतितमं पर्वं समाप्तम् ॥
१. हु-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org