________________
पउमणिव्वाणगमणपव्वं -११८/१-२४
७११ दिट्ठो लङ्काहिवई, सुरेण भणिओ य तत्थ संबुक्को । रे पाव ! पुव्वजणियं, अज्ज वि कोवं न छड्डेसि ॥१२॥ तिव्वकसायवसगया, अणिवारियइन्दिया किवारहिया । ते एत्थ नरयलोए, अणुहुन्ति अणेयदुक्खाइं ॥१३॥ सोऊण वि नेरड्यं, दुक्खं जीवस्स जायइ भवोहे । किं पुण तुज्झ न जायइ, भयं इहं विसहमाणस्स ? ॥१४॥ सोऊण वयणमेयं, संबुक्को उवसम समणुपत्तो । ताहे लङ्काहिवई, लक्खणसहियं भणइ देवो ॥१५॥ मोत्तूण भउव्वेयं, मह वयणं सुणह ताव वीसत्था । तुब्भे हि विरहिया, संपत्तां एरिसं दुक्खं ॥१६॥ दिव्वविमाणारूढं, ते रावण-लक्खणा सुरं दटुं । पुच्छन्ति साहसु फुडं, को सि तुमं आगओ एत्थ ? ॥१७॥ सो ताण साहइ सुरो, एत्तो पउमाइयं जहावत्तं । पडिबोहकारणटे, निययं च समागमारम्भं ॥१८॥ निययं चिय वित्तन्तं, सुणिउं ते तत्थ दो वि पडिबुद्धा । सोएन्ति दीणवयणा, अप्पाणं लज्जियमईया ॥१९॥ धी! किं न कओ धम्मो, तइया अम्हेहिं माणुसे जम्मे ? । जेणेह दुहावत्था, संपत्ता दारुणे नरए ॥२०॥ धन्नो सि तुमं सुरवर !, जो परिचइऊण विसयसोक्खाई। जिणवरधम्माणुरओ, संपत्तो चेव देवि९ि ॥२१॥ तत्तो सो कारुणिओ, जंपइ मा भाह दो वि तुब्भे हं । हक्खुविऊण इमाओ, नरगाओ नेमि सुरलोयं ॥२२॥ आबद्धपरियरो सो, हक्खुविऊणं तओ समाढत्तो । विलियन्ति अइदुगेज्झा, ते अणलहओ व्व नवनीओ ॥२३॥ सव्वोवाएहि जया, घेत्तूण न चाइया सुरिन्देणं । ताहे ते नेरड्या, भणन्ति देवं मुयसु अम्हं ॥२४॥
दृष्टो लङ्काधिपतिः सुरेण भणितस्तत्र संबुक: । रे पाप ! पूर्वनजनितमद्यापि कोपं न मुञ्चसि ॥१२॥ तीव्रकषायवशगता अनिवारितेन्द्रियाः कृपारहिताः । तेऽत्र नरकलोकेऽनुभवन्त्यनेकदुःखानि ॥१३॥ श्रुत्वाऽपि नैरयिकं दुःखं जीवस्य जायते भवौघे । किं पुनस्तव न जायते भयमिह विषहमानस्य ? ॥१४|| श्रुत्वा वचनमेतत्संबुक उपशमं समनुप्राप्तः । तदा लकाधिपति लक्ष्मणसहितं भणति देवः ॥१५॥ मुक्त्वा भयोद्वेगं मम वचनं श्रुणुत तावद्विश्वस्ताः । यूयं हि विरतिरहिता संप्राप्ता इदृशं दुःखम् ॥१६।। दिव्यविमानारुढं तौ रावण-लक्ष्मणौ सुरं दृष्ट्वा । पृच्छतः कथय स्फुटं कोऽसि त्वमागतोऽत्र ? ॥१७॥ स तयोः कथयति सुर इतः पद्मादिकं यथावृत्तम् । प्रतिबोधकारणार्थे निजकं च समागमारम्भम् ।।१८।। निजकमेव वृत्तान्तं श्रुत्वा ते तत्र द्वावपि प्रतिबुद्धौ । शोचतो दीनवदनावात्मानं लज्जितमतिकौ ॥१९॥ धि! किं न कृतो धर्मस्तदाऽऽवाभ्यां मानुष्ये जन्मनि ? । येनेह दु:खावस्थां संप्राप्तौ दारुणे नरके ॥२०॥ धन्योऽसि त्वं सुरवर ! यः परित्यज्य विषयसुखानि । जिनवरधर्मानुरतः संप्राप्त एव देवर्द्धिम् ॥२१॥ ततः स कारुणिको जल्पति मा बिभेतं द्वावपि यूवामहम् । उत्क्षिप्यास्मान्नरकान्नयामि सुरलोकम् ।।२२।। आबद्धपरिकरः स उत्क्षेप्तुं ततः समारब्धः । विलीनीतोऽतिदुर्गाह्यो तावनलहत इव नवनीतः ॥२३॥ सर्वोपायै र्यदा गृहीतुं न शक्यते सुरन्द्रेण । तदा तौ नैरयिकौ भणतो देव मुञ्चावाम् ॥२४॥
१. छड्डेहि-प्रत्य० । २. तुम्हेहिं । ह०-मु० । ३. ०वं सुणसु-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org