________________
बलदेवणिक्खमणपव्वं - ११४ / १२-३४
५
गिरिकन्दरट्टियस्स यौं, रयणीए तीए तस्स उप्पन्नं । पउमस्स अवहिनाणं, सहसा झाणेक्वचित्तस्स ॥२५॥ अवहिविसएण ताहे, सुमरइ लच्छीहरं पउमणाहो । अवियहकामभोगं, नरयावत्थं च दुक्खत्तं ॥२६॥ 'सयमेग कुमारते, तिण्णेव 'सयाणि मण्डलित्ते य । चत्तालीस य विजए, जस्स उ संवच्छरों ऽतीया ॥२७॥ एक्कारस य सहस्सा, पञ्चेव सया तहेव सट्ठिजुया । वरिसाणि महारज्जे, जेण सयासे ठिया विसया ॥२८॥ बारस चेव सहस्सा, हवन्ति वरिसाण सव्वसंखाए । भोत्तूण इन्दियसुहं, गओ य नरयं अनियमियप्पा ॥२९॥ देवाण को व दोसो, परभवजणियं समागयं कम्मं । बन्धवनेहनिहेणं, मओ गओ लक्खणो नरयं ! ॥३०॥ मह तस्स नेहबन्धो, वसुदत्ताईभवेसु बहुएसुं । आसि पुरा मह झीणो, संपइ सव्वो महामोहो ॥३१॥ एवं जो समत्थो, बन्धवनेहाणुरायपडिबद्धो । धम्मं असद्दहन्तो, परिहिण्डड़ दीहसंसारे ॥३२॥ एवं सो बलदेवो, गागी तत्थ कन्दरुद्देस । चिट्ठइ सज्झायरओ, दुक्खविमोक्खं विचिन्तेन्तो ॥३३॥ एयं चिय निक्खमणं, बलदेवमुणिस्स सुणिय एयमणा । होह जिणधम्मनिया, "निच्चं भो विमलचेट्टिया सप्पुरिसा ॥३४॥
१०
१२
॥ इइ पउमचरि बलदेव " निक्खमणं नाम चउदसुत्तरसयं पव्वं समत्तं ॥
गिरिकन्दरास्थितस्य च रजन्यां तस्यां तस्योत्पन्नम् । पद्मस्यावधिज्ञानं सहसा ध्यानैकचित्तस्य ॥ २५ ॥ अवधिविषयेण तदा स्मरति लक्ष्मीधरं पद्मनाभः । अवितृष्णकामभोगं नरकावस्थं च दुःखार्तम् ॥२६॥ शतमेकं कुमारत्वे त्रिण्येव शतानि मण्डलिकत्वे च । चत्वारिंशच्च विजये यस्य तु संवत्सरा अतीताः ||२७|| एकादश च सहस्राः पञ्चैव शतास्तथैव षष्ठि युताः । वर्षाणि महाराज्ये येन सकाशे स्थिता विषयाः ॥२८॥ द्वादशैव सहस्रा भवन्ति वर्षाणां सर्वसंख्यया । भुक्त्वेन्द्रिय सुखं गतश्च नरकमनियमितात्मा ॥२९॥ देवानां को वा दोषः परभवजनितं समागतं कर्म । बन्धुस्नेहनिभेन मृतो गतो लक्ष्मणो नरकम् ॥३०॥ मम तस्य स्नेहबन्धो वसुदत्तादि भवेषु बहुषु । आसीत्पुरा मम क्षीणः संप्रति सर्वो महामोहः ||३१|| एवं जनः समस्त बन्धुस्नेहानुरागप्रतिबद्धः । धर्ममश्रद्धन् परिहिण्डते दीर्घसंसारे ॥३२॥
एवं स बलदेव एकाकी तत्र कन्दरोद्देशे । तिष्ठति स्वाध्यायरतो दुःखविमोक्षं विचिन्तयन् ॥३३॥ एतदेव निष्क्रमणं बलदेवमुनेः श्रुत्वेकाग्रमनसः । भवत जिनधर्मनिरता नित्यं भो विमलचेष्टिताः सत्पुरुषाः ||३४||
।। इति पद्मचरिते बलदेवनिष्क्रमणं नाम चतुर्दशोत्तरशतं पर्वं समाप्तम् ॥
Jain Education International
७०१
१. उ-प्रत्य० । २. सयसत्त कु० मु० । ३. सया य मंडलीए य प्रत्य० । ४ ०राणि तहा - प्रत्य० । ५. ०स्सा, सपंचणवया त० मु० । ६. ०ण पंचविसूणा । भो० मु० । ७. ०सु सव्वेसु- प्रत्य० । ८. क्खवणं प्रत्य० । ९ ०स्स निसुणिउं एय० मु० । १०. मुणिउ - प्रत्य० । ११. निच्चं वो वि०प्रत्य० । १२. ० वमुणिस्स नि० मु० ।
For Personal & Private Use Only
www.jainelibrary.org