________________
४२६
पउमचरियं अह ते खणेण पत्ता, वेलंधरपव्वयं मणभिरामं । वेलंधरपुरसामी, जत्थ समुद्दो वसइ राया ॥३९॥ वाणरबलं निएउं, त्थ समुद्दो विनिग्गओ सिग्धं । निययबलेण समग्गो, नलस्स जुझे समावडओ ॥४०॥ अह सो समुद्दराया, नलेण जिणिऊण रणमुहे बद्धो । मुक्को य निययनयरे, परिट्टिओ राहवं पणओ॥४१॥ रयणसिरी कमलसिरी, रयणसलाया तहेव गुणमाला । एयाउ समुद्देणं, दिनाओ लच्छिनिलयस्स ॥४२॥ तत्थ सुवेलपुरवरे, रयणिं गमिऊण उग्गए सूरे । लङ्काहिमुहा चलिया, जयसङ्ग्घुटतूरवा ॥४३॥ वाणरबलेण दिट्ठा, लंका वरभवण-तुङ्गपागारा । सागरवरस्स मज्झे, आरामुज्जाणसुसमिद्धा ॥४४॥ नयरीए समासन्ने, हंसद्दीवं तओ समणुपत्ता । अह ते हंसरहनिवं, जिणिऊणं वासिया तत्थ ॥४५॥ भामण्डलस्स पुरिसो, रामेण पवेसिओ पवणवेगो । गन्तूण तस्स सव्वं, विग्गहमादओ परिकहेइ ॥४६॥
जत्तो जत्तो विहियसुकया जन्ति वीरा मणुस्सा, तत्तो तत्तो विजियरिउणो भोगसङ्खलहन्ति । ताणं लोए न भवइ परं किंचि कज्जं, असज्झं, तम्हा धम्मं कुणह विमलं लोगनाहाणुचिण्णं ॥४७॥
॥ इय पउमचरिए लङ्कापत्थाणाभिहाणं नामं चउपन्नासइमं पव्वं समत्तं ॥
अथ ते क्षणेन प्राप्ता वेलंधरं पर्वतं मनोभिरामम् । वेलंधरपुरस्वामी यत्र समुद्रो वसति राजाः ॥३९॥ वानरबलं दृष्ट्वा तत्र समुद्रो विनिर्गतः शीघ्रम् । निजबलेन समग्रो नलस्य युद्धे समापतितः ॥४०॥ अथ स समुद्रराजा नलेन जित्वा रणमुखे बद्धः । मुक्तश्च निजनगरे परिस्थितो राघवं प्रणतः ॥४१॥ रत्नश्रीः कमलश्री रत्नशलाका तथैव गुणमाला । एताः समुद्रेण दत्ता लक्ष्मीनिलयाय ॥४२॥ तत्र सुवेलपुरवरे रजनीं गमयित्वोद्गते सूर्ये । लङ्काभिमुखाश्चलिता जयशब्दोद्धृष्टतूर्यरवाः ॥४३॥ वानरबलेन दृष्टा लङ्का वरभवनोत्तुड्गप्राकारा । सागरवरस्य मध्ये आरामोद्यानसुसमृद्धा ॥४४॥ नगर्या आसन्ने हंसद्वीपं ततः समनुप्राप्ताः । अथ ते हंसरथनृपं जित्वोषितास्तत्र ॥४५॥ भामण्डलस्य पुरुषो रामेण प्रवेशितः पवनवेगः । गत्वा तस्य सर्वं विग्रहादि परिकथयति ॥४६॥
यत्र यत्र विहितसुकृता यान्ति वीरा मनुष्यास्तत्र तत्र विजितरिपवो भोगसङ्गं लभन्ते । तेषां लोके न भवति परं किंचित्कार्यमसाध्यं तस्माद्धर्मं कुरुत विमलं लोकनाथानुचीर्णम् ॥४७॥
॥ इति पद्मचरिते लड्काप्रस्थानाभिधानं नाम चतुष्पञ्चाशत्तमं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org