________________
॥ २५. चउभाइविहाणं ॥ अह अन्नया कयाई, देवी अवराइया सुहपसुत्ता । पेच्छइ य पवरसुमिणे, रयणीए पच्छिमे जामे ॥१॥ वरकुसुमकुन्दवण्णं, सीहं सूरं तहेव रयणियरं । दट्ठण अह विबुद्धा, पइणो सुमिणे परिकहेइ ॥२॥ सोऊण पवरसुमिणे, सत्थत्थविसारओ नरवरिन्दो । भणइ इमे वरपुरिसं, सुन्दरि ! पुत्तं निवेएन्ति ॥३॥ तयणन्तरं सुमित्ता, पेच्छइ सुमिणे निसावसाणम्मि । लच्छो कमलविहत्था, ससि-सूरे किरणपज्जलिए ॥४॥ अत्ताणं अइतुङ्गे, गिरिवरसिहरे अवट्ठिया सन्ती । सायवरपेरन्तं, पेच्छड़ पुहई चिय पसत्थं ॥५॥ सूरुग्गमम्मि तो सा, गन्तूण कहेइ सुविणए पइणो। तेण वि य तीए सिटुं, होही पुत्तो तुमं भद्दे ! ॥६॥ अवराइया कयाई, गुरुभारा सोहणे तिहि-मुहुत्ते । पुत्तं चेव पसूया, वियसियवरपउमसरिसमुहं ॥७॥ जम्मूसवो महन्तो, तस्स कओ दसरहेण तुडेणं । नामं च विरड्यं से, पउमो पउमुप्पलदलच्छो ॥८॥ तत्तो चेव पसूया, सोमित्ती दारयं परमरूवं । तस्स वि य महाणन्दो, सविसेसो नरवईण कओ ॥९॥ वेरियघरेस जाया. उप्पाया दारुणा महापावा । बन्धवनयरेस पुणो, कहेन्ति सहसंपयं विउलं ॥१०॥ नीलुप्पलदलसामो, जेणं चिय लक्खणेसु उववेओ । तेणं गुणाणुरूवं, छूढं चिय लक्खणो नामं ॥११॥ अह दो वि बालया ते, रिङ्खण-चंकमणयाइ कुणमाणा । वड्डन्ति लच्छिनिलया, आभरणविभूसियसरीरा ॥१२॥ बहुविहजम्मसिणेहा, अन्नोन्नवसाणुगा वरकुमारा । बन्धवहिययाणन्दा, रक्खिज्जन्ते पयत्तेणं ॥१३॥
॥ २५. चतुर्भ्रातृविधानम् ॥ अथान्दा कदाचिद्देव्यपराजिता सुखप्रसुप्ता । पश्यति च प्रवरस्वप्नानजन्यां पश्चिमे यामे ॥१॥ वरकुसुमकुन्दवर्ण सिंह सूर्यं तथैव रजनिकरम् । दृष्ट्वा अथ विबुद्धा पत्युः स्वप्नान्परिकथयति ॥२॥ श्रुत्वा प्रवरस्वप्नान्शास्त्रार्थविशारदो नरवरेन्द्रः । भणतीमे वरपुरुषं सुन्दरि ! पुत्रं निवेदयन्ति ॥३॥ तदनन्तरं सुमित्रा पश्यति स्वप्नान्निशावसाने । लक्ष्मी: कमलविहस्ता शशि-सूर्यो किरणप्रज्वलितौ ॥४॥ आत्मानमत्युत्तुङ्गे गिरिवरशिखरे ऽवस्थिता सती । सागरवरपर्यन्तं पश्यति पृथिवीमेव प्रशस्ताम् ।।५।। सूर्योद्गमे तदा सा गत्वा कथयति स्वप्नान् पत्युः । तेनापि च तस्याः शिष्टं भविष्यति पुत्रस्त्वां भद्रे ! ॥६|| अपराजिता कदाचिद्गुरुभारा शोभने तिथि-मुहूर्ते । पुत्रमेव प्रसूता विकसितवरपद्मसदृशमुखम् ॥७॥ जन्मोत्सवो महांस्तस्य कृतो दशरथेन तुष्टेन । नाम च विरचितं तस्य पद्मः पद्मोत्पलाक्षः ॥८॥ तत एव प्रसूता सौमित्रि रिकं परमरुपम् । तस्यापि च महानन्दः सविशेषो नरपतिना कृतः ॥९॥ वैरीगृहेषु जाता उत्पाता दारुणा महापापाः । बान्धवनगरेषु पुनः कथयन्ति सुखसंपद्विपुलम् ॥१०॥ नीलोत्पलदलश्यामो येनैव लक्षणैरुपपेतः । तेन गुणानुरुपं क्षिप्तमेव लक्ष्मणो नाम ॥११॥ अथ द्वावपि बालकौ तौ रिङ्खनचक्रमणादि कुर्वाणौ । वर्धेते लक्ष्मीनिलयावाभरणविभूषितशरीरौ ॥१२॥ बहुविधजन्मस्नेहावन्योन्यवशानुगौ वरकुमारौ । बान्धवहृदयानन्दौ रक्ष्येते प्रयत्नेन ॥१३॥ १. लच्छि कमलविहत्थं-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org