________________
देसभूसण- कुलभूसणवक्खाणं- ३९ / १०२-१२६
ताव च्चिय पढमयरं, कयसंदेसेण नरवरिन्देणं । वेसाए पायवडिओ, दिट्ठो सो तावसो धिट्ठो ॥११५॥ खररज्जुर्हि स बद्धो, खलियारं पाविओ पहायम्मि । पुहइ भमन्तो य मओ, किलेसजोणीसु उप्पन्नो ॥११६॥ कम्मपरिनिजजराए, कह वि य मणुयत्तणम्मि आयाओ । धण-बन्धु-सयणरहिओ, जणओ वि गओ परविएसं ॥११७॥ जा कुमारभावे, हरिया जणणी वि तस्स मेच्छेहिं । अइदुक्खिओ समाणो, तावसधम्मं समल्लीणो ॥११८॥ अइकट्ठे बालतवं, विहिणा काऊण आउगे झीणे। जाओ जोइसवासी, देवो अणलप्पहो नाम ॥ ११९॥ भयवं अणन्तविरिओ, सिस्सेणं पुच्छिओ विबूहमज्झे । मुणिसुवव्यस्स तित्थे, होही को केवली अन्नो ? ॥१२०॥ भाइ तओणन्तबलो, मह निव्वाणं गयस्स होहिन्ति । समणा समाहियमणा, दो वि जणा केवली एत्थ ॥१२१॥ निग्गन्थसमणसीहो, पढमो च्चिय देसभूसणो नामं । कुलभूसणोऽत्थ बीओ, केवलनाणी जगुत्तारो ॥१२२॥ अणलप्पभो वि सुणिउं, केवलिमुहकमलनिग्गयं वयणं । हियएण अणुसरन्तो, निययद्वाणं समल्लीणो ॥ १२३॥ अह अन्नयाऽवहीणं, अम्हे नाऊण एत्थ कयजोगा । जंपइ करेमि मिच्छा, अणन्तविरियस्स वयणं तं ॥१२४॥ अहिमाणेण तुरन्तो, इहागओ पुव्ववेरदढरोसो । काऊण य उवसग्गं, अइघोरं पत्थिओ सघरं ॥ १२५ ॥ नारायणसहिएणं, राघव ! जं ते कयं तु वच्छल्लं । कम्मक्खएण अम्हं, केवलनाणं समुप्पन्नं ॥१२६॥
३५१
तावदेव प्रथमतरं कृतसंदेशेन नरवरेन्द्रेण । वेश्याया पादपतितो दृष्टः स तापसो धृष्टः ॥ ११५ ॥ खररज्जुभिः स बद्धस्तिरस्कारं प्राप्तः प्रभाते । पृथिवीं भ्रमंश्च मृतः क्लेशयोनिषूत्पन्नः ॥११६॥ कर्मपरिनिर्जरया कथमपि च मनुष्यत्व आयातः । धन-बन्धु- स्वजन रहितो जनकोऽपि गतः परविदेशम् ॥११७॥ जाते कुमारभावे हृता जनन्यपि तस्य म्लेच्छैः । अतिदुःखितः सन् तापसधर्मं समालीनः ॥ ११८ ॥ अतिकष्टं बालतपो विधिना कृत्वाऽऽयुष्ये क्षीणे । जातो ज्योतिषस्वामी देवोऽनलप्रभो नाम ॥११९॥ भगवन्नन्तवीर्यः शिष्येण पृष्टो विबुधमध्ये । मुनिसुव्रतस्य तीर्थे भविष्यति कः केवली अन्यः ॥ १२० ॥ भणति ततोऽनन्तबलो मम निर्वाणं गतस्य भविष्यतः । श्रमणौ: समाधितमनसौ द्वावपि जनौ केवलिनावत्र ॥१२१॥ निग्रंथश्रमणसिंहः प्रथम एव देशभूषणो नाम । कुलभूषणोऽथ द्वितीयः केवलज्ञानिनौ जगदुत्तारौ ॥१२२॥ अनलप्रभोऽपि श्रुत्वा केवलिमुखकमलनिर्गतं वचनम् । हृदयेनानुस्मरन्निजस्थानं समालीनः ॥ १२३॥ अथान्यदावधिनावां ज्ञात्वाऽत्र कृतयोगौ । जल्पति करोमि मिथ्याऽनन्तवीर्यस्य वचनं तत् ॥१२४॥ अभिमानेन त्वरमाणेहागतः पूर्ववेरदृढरोषः । कृत्वा चोपसर्गमतिघोरं प्रस्थितः स्वगृहम् ॥१२५॥ नारायणसहितेन राघव ! यत्त्वया कृतं तु वात्सल्यम् । कर्मक्षयेनावयोः केवलज्ञानं समुत्पन्नम् ॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org