________________
३२६
पउमचरियं जइ वि य सयं नरिन्दो, परविसयगओ हवेज्ज एगागी। तह वि य परिहवठाणं, पावइ लोए ठिई एसा ॥६५॥ जस्सऽत्थो तस्स सुहं, जस्सऽत्थो पण्डिओ य सो लोए । जस्सऽत्थो सो गुरुओ, अत्थविहूणो य लहुओ उ॥६६॥ तस्स महत्थो य जसो, धम्मो वि य तस्स होइ साहीणो। धम्मो वि सो समत्थो, जस्स अहिंसा समुद्दिट्ठा ॥६७॥ अहवा किं न सुयं ते ?, सणंकुमारो समन्तभरहवई । रूवस्स दरिसणटे, जस्स सुरा आगया इहइं ॥६८॥ संवेगजणियकरुणो, पव्वज्जं गेण्हिडं परिभमन्तो । भिक्खं च अलभमाणो, विजयपुरं पाविओ कमसो ॥६९॥ पडिलाहिओ महप्पा, कयाइ दारिद्दसमभिभूयाए । पडिया य रयणवुट्टी, गन्धोदय-पुष्फवरिसं च ॥७०॥ एवंविहा वि समणा, सुर-नरमहिय-ऽच्चिया दढचरित्ता । परविसयं विहन्ता, परिभूया दुट्ठलोएणं ॥७१॥ फरुसाणि अणिहाणि य, जं भणिया राग-दोस-मूढेणं । तं खमह अविणयं मे, जो तुम्ह पहू ! कओ तइया ॥७२॥ कविलं एव रुयन्तं, संथावइ राघवो महुरभासी । सीया वि सुसम्म संभमेण परिनिव्वुई कुणइ ॥७३॥ कणयकलसेसु कविलो, किंकरपुरिसेहि पउमआणाए । साधम्मिओ त्ति काउं, कन्ताए समं तओ ण्हविओ ॥७४॥ भुञ्जाविओ विचित्तं, आहारं भूसिओ य रयणेहिं । दिन्नं च धणं बहुयं, ताहे गेहं गओ विप्पो ॥५॥ आजम्मधणविहीणो, पत्तो जणविम्हयं महाभोगं । तह वि न करेइ धिई, सम्माणपराहयसरीरो ॥७६॥ पुव्वं विहडिय-पडियं, मज्झ घरं आसि विभवपरिहीणं । रामस्स पसाएणं, जायं धण-रयणपरिपुण्णं ॥७७॥
यद्यपि च स्वयं नरेन्द्रः परविषयगतो भवेदेकाकी । तथापि च परिभवस्थानं प्राप्नोति लोकस्थितिरेषा ॥६५।। यस्यार्थस्तस्य सुखं यस्यार्थः पण्डितश्च स लोके । यस्यार्थः स गुरुकोऽर्थविहीनश्च लघुकस्तु ॥६६॥ तस्य महार्थश्च यशोधर्मोऽपि च तस्य भवति स्वाधीनः । धर्मोऽपि स समर्थो यस्याहिंसा समुद्दिष्टा ॥६७॥ अथवा किं न श्रुतं त्वया ? सनत्कुमारः समस्तभरताधिपतिः । रुपस्य दर्शनार्थे यस्य सुरा आगताऽत्र ॥६८|| संवेगजनितकारुण्यः प्रव्रज्यां गृहीत्वा परिभ्रमन् । भिक्षां चालभमानो विजयपुरं प्राप्तः क्रमशः ॥६९॥ प्रतिलाभितो महात्मा कदाचिद्दारिद्रसमभिभूतया । पतिताश्च रत्नवृष्टि र्गन्धोदकपुष्पवर्षा च ॥७०॥ एवंविधा अपि श्रमणाः सुर-नरमहितार्चिता दृढचारित्राः । परविषयं विहरन्तः परिभूता दुष्टलोकेन ॥७१॥ परुषाण्यनिष्टानि च यद्भणिता रागद्वेषमूढेन । तत्क्षमस्वाविनयं मम यस्तवप्रभो ! कृतस्तदा ॥७२॥ कपिलमेवं रुदन्तं संस्थापयति राघवो मधुरभाषी । सीताऽपि सुशर्मा ससंभ्रमेण परिनिवृत्तिं करोति ॥७३॥ कनककलशैः कपिलः किंकरपुरुषैः पद्माज्ञया । साधर्मिक इतिकृत्वा कान्तायाः समं ततः स्नापितः ॥७४।। भोजितो विचित्रमाहारं भषितश्च रत्नैः । दत्तं च धनं बहकं तदा गहं गतो विप्रः ॥७॥ आजन्मधनविहीनः प्राप्त जनविस्मितं महाभोगम् । तथापि न करोति धृति सन्मानपराहतशरीरः ॥७६॥ पूर्वं विघटितपतितं मम गृहमासीद्विभवपरिहीणम् । रामस्य प्रसादेन जातं धनरत्नपरिपूर्णम् ॥७७॥
१. सम्माणसराहय-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org