________________
३०८
पउमचरियं दुग्गन्धा दुप्फरिसा, नरया ससि-सूरवज्जिया दीणा पुंडयाय कूडसामलि करपत्तऽसिवत्त जन्ताइं ॥३९॥ एएसु पावकम्मा पक्खिता जीवहिसया दीणा । चक्खुनिमिसं पि सोक्खं, न लहन्ति लभन्ति दुक्खाइं ॥४०॥ ते एरिसं महन्तं, दुक्खं पावन्ति विसयसुहलोला । ताणं चिय अप्पहियं, केरिसयं होइ पुरिसाणं? ॥४१॥ किम्पागफलसरिच्छं, विसयसुहं अप्पसोक्ख-बहुदुक्खं । अहियं वज्जेहि इम, करेहि जं तुज्झ अप्पहियं ॥४२॥ तेहि कयं अप्पहियं, जहि उ गहिया महव्वया पञ्च । अहवाऽणुव्वयनिरया, सेसा दुक्खाणि पावन्ति ॥४३॥ धम्मं काऊण इहं, पाविहिसि सुरालए परमसोक्खं । दुक्खं अणुहवसि चिरं, नरयम्मि गओ अहम्मेणं ॥४४॥ एए मया अणाहा, निच्चुब्बिग्गा भउगुया रण्णे । मा हणसु रसासत्तो, हिंसं तिविहेण वज्जेहि ॥४५॥ एएसु य अन्नेसु य, उवएससएसु बोहिओ जाहे । ताहे तुरङ्गमाओ, ओयरिउं पणमई साहुं ॥४६॥ तो भणइ कयत्थोऽहं, विमुक्पावो न एत्थ संदेहो । जो सुर-नरसंपुज्जं, साहुस्स समागमं पत्तो ॥४७॥ निग्गन्थाण महायस ! दुक्करचरिया अहं पुण असत्तो । पञ्चाणुव्वयधारी, गिहत्थधम्मे अभिरमामो ॥४८॥ एवं गिहत्थधम्मं, घेत्तूण नराहिवो समुल्लवइ । जिणसाहवे पमोत्तुं, अन्नस्स सिरं न नामेमि ॥४९॥ अह पीइवद्धणं सो, साहुं पूएइ परमभावेणं । उववासं चिय गिण्हइ, राया उल्लसियरोमञ्चो ॥५०॥ उववासियस्स साहू, कहेइ परमं हियं निययकालं । जं काऊण गिहत्था, भविया मुंचन्ति दुक्खाणं ॥५१॥ सागार-निरगारं, चारित्तं दुविहमेव उवइटुं । सालम्बणं गिहत्था, करन्ति साहू निरालम्बं ॥५२॥
दुर्गन्धा दुस्स्पर्शा नरकाः शशि-सूर्यवर्जिता नित्यम् । पुटपाक-कूटशाल्मलि-करपत्रासिपत्रयन्त्राणि ॥३९॥ एतेषु पापकर्माणः प्रक्षिप्ता जीवहिंसका दीनाः । चक्षुर्निमेषमपि सुखं न लभन्ते लभन्ते दुःखानि ॥४०॥ त एतादृशं महद्द:खं प्राप्नुवन्ति विषयसुखलोलाः । तेषामेवात्महितं कीदृशं भवति पुरुषाणाम् ? ॥४१।। किम्पाकफलसदृशं विषयसुखमल्पसुख-बहुदु:खम् । अधिकं वर्जयेदं कुरु यत्तवात्महितम् ॥४२।। तैः कृतमात्महितं यैस्तु गृहीता महाव्रताः पञ्च । अथवाणुव्रतनिरताः शेषा दुःखानि प्राप्नुवन्ति ।।४३।। धर्मं कृत्वेह प्राप्स्यसि सुरालये परमसुखम् । दुःखमनुभवसि चिरं नरके गतोऽधर्मेण ॥४४॥ एते मृगा अनाथा नित्योद्विग्ना भयोपद्रुता अरण्ये । मा हण रसासक्तो हिसां त्रिविधेन वर्जय ॥४५॥ एतैश्चान्यैश्चोपदेशशतै र्बोधितो यदा । तदा तुरङ्गमादवतीर्य प्रणमति साधुम् ॥४६।। तदा भणति कृतार्थोऽहं विमुक्तपापो नात्र संदेहः । यः सुर-नरसंपूज्यं साधो:समागमं प्राप्तः ॥४७॥ निर्ग्रन्थानां महायशः ! दुष्करचर्याहं पुनरसक्तः । पञ्चाणुव्रतधारी गृहस्थधर्मेऽभिरमे ॥४८॥ एवं गृहस्थधर्मं गृहीत्वा नराधिपः समुल्लपति । जिनसाधून्प्रमुच्यान्यस्य शिरो न नमामि ॥४९॥ अथ प्रीतिवर्धनं स साधुं पूजयति परमभावेन । उपवासमेव गृह्णाति राजोल्लसितरोमाञ्चः ॥५०॥ उपवासितस्य साधुः कथयति परमं हितं नित्यकालम् । यत्कृत्वा गृहस्था भविका मुञ्चन्ति दुःखात् ॥५१॥ साकार-निराकारं चारित्रं द्विविधमेवोपदिष्टम् । सालम्बनं गृहस्था कुर्वन्ति साधवो निरालम्बनम् ॥५२॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org