________________
३६
पउमचरियं
पञ्च य महव्वयाइं, समिईओ पञ्च तिण्णि गुत्तीओ। एसो हु समणधम्मो, जोगविसेसेण बहुभेओ ॥२३॥ पञ्चाणुव्वयजुत्तो, सत्तहि सिक्खावएहि परिकिण्णो । एसो वि सावयाणं, धम्मो ऊदेसविरयाणं ॥२४॥ धम्मेण लहइ जीवो, सुर- माणुसपरमसोक्खमाहप्पं । दुक्खसहस्सावासं, पावइ नरयं अहम्मेणं ॥२५॥ मेहेण विणा वुट्ठी, न होइ न य बीयवज्जियं सस्सं । तह धम्मेण विरहियं, न य सोक्खं होइ जीवाणं ॥२६॥ जइ वि हु तवं विगिट्टं, करन्ति अन्नाणिया पयत्तेणं । तह वि हु किंकरदेवा, हवन्ति चइया तओ तिरिया ॥२७॥ ते भवसहस्सपउरे, संसारे चाउरङ्गमग्गम्मि । दुक्खाणि अणुहवन्ती, अणन्तकालं परिभमन्त ॥२८॥ जिणवरधम्मं काऊण, निव्वुया होन्ति केइ अहमिन्दा । कप्पालयाहिवत्तं, अवरे पावन्ति दढधम्मा ॥२९॥
वि य निग्गन्थाणं, थुई पउज्जन्ति सव्वभावेणं । ते तस्स फलगुणेणं, न य कुगइपहं पवज्जन्ति ॥ ३० ॥ सोऊण धम्मवणं, जिणवरकहियं नरा - ऽमरसमूहा। सम्मत्तलद्धबुद्धी, संवेगपरायणा मुइया ॥३१॥ केइत्थ समणसीहा, हवन्ति ववगयपरिग्गहा - SSरम्भा । पञ्चाणुव्वयजुत्ता, केई पुण सावया जाया ॥३२॥ एवं सुर-नरवसहा, कहावसाणे जिणं पणमिऊणं । सव्वे परियणसहिया, गया य निययाइँ ठाणाई ॥३३॥ विहरइ जत्थ जिणिन्दो, सो देसो सग्गसन्निहो होइ । जोयणसयं समन्ता, रोगादिविवज्जिओ रम्मो ॥३४॥ अह उससेणपमुहा, चउरासीयं तु गणहरा तस्स । उप्पन्ना य सहस्सा, तावइया चेव समणाणं ॥ ३५ ॥ ताव य चक्कहरत्तं, संपत्तं भरहराइणा सयलं । हयगयजुवइसमग्गो, चउदसरयणाहिवो धीरो ॥३६॥
पञ्च च महाव्रतानि समितयः पञ्च त्रिस्रो गुप्तयः । एष खलु श्रमणधर्मो योगविशेषेण बहुभेदः ||२३|| पञ्चाणुव्रतयुक्तः सप्त शिक्षाव्रतैः परिकीर्णः । एषोऽपि श्रावकाणां धर्मस्तु देशविरतानाम् ॥२४॥ धर्मेन लभते जीवः सुरमनुष्यपरमसौख्यमहात्म्यम् । दुःखसहस्रावासं प्राप्नोति नरकमधर्मेण ॥२५॥ मेधेन विना वृष्टिर्न भवति न च बीजवर्जितं शस्यम् । तथा धर्मेण विरहितं न च सौख्यं भवति जीवानाम् ॥२६॥ यद्यपि खलु तपो विकृष्टं कुर्वन्त्यज्ञानिकाः प्रयत्नेन । तथापि खलु किंकरदेवा भवन्ति च्युत्वा ततस्तिर्यंचः ॥२७॥ ते भवसहस्रप्रचूरे संसारे चातुरङ्गमार्गे । दुःखान्यनुभवन्न्यनन्तकालं परिभ्रमन्त ॥ २८॥ जिनवरधर्मं कृत्वा निर्वृत्ता भवन्ति केऽप्यहमिन्द्राः । कल्पालयाधिपत्यमपरे प्राप्नुवन्ति दृढधर्माः ॥ २९ ॥ येsपि च निर्ग्रन्थानां स्तुतिं प्रयोजयन्ति स्वभावेन । ते तस्य फलगुणेन न च कुगतिपथं प्रव्रजन्ति ॥३०॥ श्रुत्वा धर्मवचनं जिनवरकथितं नराऽमरसमूहाः । सम्यक्त्वलब्धबुद्धयः संवेगपरायणमुदिताः ॥३१॥ केचित् श्रमणसिंहा भवन्ति व्यपगतपरिग्रहाऽऽरम्भाः । पञ्चाणुव्रतयुक्ताः केचित् पुनः श्रावका जाताः ||३२|| एवं सुरनरवृषभाः कथावसाने जिनं प्रणम्य । सर्वे परिजनसहिता गताश्च निजकानि स्थानानि ॥३३॥ विहरति यत्र जिनेन्द्रः स देशः स्वर्गसन्निभो भवति । योजनशतं समन्ताद्रोगादिविवर्जितो रम्यः ||३४|| अथ ऋषभसेन प्रमुखा श्चतुरशीतिस्तु गणधरास्तस्य । उत्पन्नाश्च सहस्रं तावन्तश्चैव श्रमणानाम् ॥३५॥ तदा च चक्रधरत्वं संप्राप्तं भरतराज्ञा सकलम् । हयगजयुवतिसमग्रश्चतुर्दशरत्नाधिपो धीरः ||३६||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org