________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ सानेति । या तु भवस्थकेवलिनो द्विविधस्य सयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयादपायसदद्रव्यक्षयाच्चोदपादि सा सादिरपर्यवसानेति । यस्मिन् काले दर्शनमोहनीयं क्षपयित्वा प्राप्ता स आदिः तस्याः । एवमेतत् तत्त्वमित्येवंविधा या रुचिःसान कदाचित् तस्यापैष्यतीति । एवं यथाक्रममुपन्यस्य स्वयं व्याख्यानयति-सादिसपर्यवसानेति यदुक्तं तस्येदं व्याख्यानम्-सादिसपर्यवसानमेव सम्यग्दर्शनम् । यच्चापायसद्व्यवर्ति तच्च सम्यग्दर्शनमितीह भणति । यच्च सद्रव्यविगमे अपायसम्भवे श्रेणिकादीनां तच्च भणति । कथं च सादीति ? सहादिना वर्तत इति सादि, यस्मिन् काले मिथ्यादर्शनपुद्गलान् विशोध्य स्थापयति सम्यग्दर्शनतया तदा सादि, यदा त्वनन्तानुबन्ध्युदयात् पुनर्मिथ्यादर्शनतया परिणाममानेष्यति क्षपयित्वा वा तान् सम्यग्दर्शनपुद्गलान् केवली भविष्यति तदा सपर्यवसानम् । सह पर्यवसानेन यद् वतेते तत् सपर्यवसानमेव सम्यग्दर्शनम् । यदा च दर्शनसप्तकं क्षपयित्वा प्राप्नोति श्रेणिकादिः स आदिस्तस्य केवलप्राप्तावन्त इति । तत् पुनः सम्यग्दर्शनं सादिसपर्यव. सानम् । शुद्धदलिकसहवर्तिनी रुचिः कियन्तं कालं भवतीति यत् पुरस्ताच्चोदितं तद् भावयन्नाह -तज्जघन्येनेत्यादि । तत्-सम्यग्दर्शन जवन्येन अन्तमुहूतेम्, मुहूर्तो घटिकाद्वय, मुहूर्तस्य मध्यं अन्तमुहूर्तम् । तदवतिष्ठते जघन्येनेति । 'सुप्सुपे'ति समासो भवति । अत्यन्तसंयोगे कालस्य द्वितीया । एतद् भवति तथा कश्चिजन्तुः सम्यग्दर्शनं द्विघटिकान्तस्तत्परिणाममनुभूय मिथ्यादर्शनी भवति केवली वा परतः, एवं च जघन्यां स्थितिमाख्यायोत्कृष्टां निरूपयन्नाह-उत्कृष्टेनेत्यादि । उत्कर्षेण कियन्तं कालमास्ते ? षट्षष्टिः सागरोपमाणि साधिकानि, तद्भावना-इहाष्टवर्षेः सम्यग्दर्शनमधिगम्य समासादितदीक्षः पूर्वकोटी विहत्याष्टवर्षानाम् अपरिच्युतसम्यग्दर्शनो विजयादीनां चतुर्णामन्यतमस्मिन् विमाने उदपादि स्थितावुत्कृष्टायां, त्रयस्त्रिंशत्सागरोपमस्थितिः, तत्क्षयाच्च प्रच्युत्य मनुजेषु सहदर्शनः समजनि, पुनस्तेनैव प्रकारेण संयममनुष्ठाय तदेव विमानं तावत्स्थितिमनुप्रापत् , पुनः स्थितौ क्षीणायामक्षीणतत्त्वार्थश्रद्धानः ( नरत्वमनुगतः )संयमं प्राप्यावश्यन्तया सिद्धयति । एवं द्वे त्रयस्त्रिंशतौ षट्षष्टिः पूर्वकोटीत्रयातिरिक्ता, अच्युतकल्पे वा द्वाविंशतिसागरोपमस्थितिस्तिस्रो वाराः समुत्पद्यते, अतः परमवश्यम्भाविनी तस्य सिद्धिरिति । यदुक्तं पुरस्तात्-सम्यग्दृष्टिर्द्विविधा सादिः सपर्यवसानेति सोंऽशो भावितः । स्थितिरेव सादिरपर्यवसानेति योऽशस्तं भावयत्यनेन-सम्यग्दृष्टिः सादिरपर्यवसाना सयोग इत्यादिना । सह योगैमनोवाककायलक्षणैः सयोगकेवली, उत्पन्ने केवलज्ञाने यावच्छैलेशी नो प्रतिपद्यते तावत् सयोगकेवली, शैलेशीप्रतिपत्तौ तु निरुद्धयोगत्वादयोगः । एतदेवाह-शैलेशीप्राप्त इति । शिलानां समूहाः शैलाः तेषामीशो मेरुस्तस्य भावः शैलेशी अचलतेतियावत् तां प्राप्तः । स चेयान् कालो ज्ञेयः-मध्यमया वृत्त्या पञ्च हस्ताक्षराण्युच्चार्यन्ते यावत् , ततः परं सिद्धयत्येव । एष द्विविधोऽपि केवली सयोगायोगाख्यो भवस्थः साद्यपर्यवसानः सम्यग्दृष्टिरुच्यते । सिद्धश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org