SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूरिकतटीका ] सम्बन्धकारिकाः लिखिताः तासु न श्रमोऽमिशङ्कथः, प्रसङ्गभयात् प्रायो निगदोक्तार्थत्वाच न विमर्दः । अतः परं शास्त्रं भवतीति ॥ ३१॥ इतीयं कारिकाटीका, शास्त्रटीकां चिकीर्षुणा । सन्हब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता ॥ अनुष्टुप __ श्रीवर्द्धमानस्वामिने नमः । अथ श्रीसिद्धसेनगणिप्रणीता द्वितीया टीका प्रारभ्यते । अवतरणम्जैनेन्द्रशासनसमुद्रमनन्तरत्न-मालोड्य भव्यजनतोषविधायि येन । रत्नत्रयं गुरु समुद्भतमिद्धबुद्धया, तत्त्वार्थसङ्ग्रहकृते प्रणमामि तस्मै ॥१॥ वसन्ततिलको स एव धीपो विधुरां धियं मे, नयप्रमाणादिविचारनीतौ । पटुं विधत्तां व्यसनावमने, कुर्वन्ति सन्तः करुणामवश्यम् ॥ २॥ उपजातिः सङ्क्षिप्तविस्तीर्णरुचिप्रबोधैः, पूर्वैर्मुनीशैर्विवृतेऽपि शास्ने । यातुं पथा वाञ्छति मध्यमेन, बुद्धिर्मदीया परिपेलवापि ॥३॥ इन्द्रवज्रा उक्तं जिनेन्द्रैर्जगदेकनाथैः, सर्व नयद्वैतमतानुसारि । ज्ञेयस्वरूपं प्रविभज्य सम्यक, संयोजनं केवलमेव चिन्त्यम् ॥ ४ ॥" विमुक्तिमार्गे मुनिनाथदेशिते, व्यधायि मौढ्याद् यदसाम्प्रतं मया । तितिक्षतां तत् सुजनः समाधिना, विलोक्य रन्धैषितया विना कृतः ॥५॥ उपेन्द्रवज्रा मोक्षमार्गोपदेशः श्रेयान् परिनिर्वाणस्य पुरुषार्थप्राधान्यात्, दुःखोद्वेगाद्धि जीवलोकः सुखप्रेप्सया च क्लेशार्तिहेतून् परिजिहीर्षन सुखानन्दनिमित्तोपादित्सया च सर्वक्रियासु प्रवर्तते । सुखदुःखप्राप्त्यभावश्च लोके तन्त्रान्तरेषु च सन्निकृष्टकारणभावोभीप्स्यते धर्मस्यार्थकामयोश्च । सुखं हि द्विविधं वैषयिकभेदानिर्वाणप्राप्तिलब्धात्मस्थसुखभेदाच, तत्र यन्मौक्षं सुखं तदात्यन्तिकमैकान्तिकमनतिशयमनाबाधकं केवलं निरावा स्वाधीनं च, शश्वदप्रतिपातादात्यन्तिकं, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयम्, प्राण्युपमर्दनजलौकिकसौख्यवैपरी वसन्ततिलका-लक्षणम्“ उत्ता वसन्ततिलका तभजा जगौ गः"। २ 'धीरो विकला' इति क-पाठः । ३ उपजाति-लक्षणम्" स्यादिन्द्रवज्रा यदि तौ जगौ गः, उपेन्द्रवजा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ताः " ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy