________________
सूत्र ३८ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
४२९
भेदेन व्यवहियते चैतन्यमात्मनीति । एवं सैव पुद्गलद्रव्यजातिः स्वरूपमजहती समासादिततत्तद्गुणविशेषरूपादिपिण्डादिव्यपदेशे हेतुरित्यतः कथञ्चिद् भेदाभेदस्वरूपं गुणपर्यायवद् द्रव्यमुच्यते, तथा धर्माधर्माकाशजीवद्रव्याण्यपि गुणपर्यायवन्ति भावयितव्यानि प्रागभिहितक्रमेण, द्रव्यं हि भव्यं योग्यं सहक्रमभुवां गुणपर्यायाणाम्, अत्र चागुरुलघुप्रभृतयः सहभुवो गुणाः, पर्यायाः क्रमभुवः, पुनर्गतिस्थित्यवगाहज्ञानदर्शननारकादयो गुणपर्यायाः पूर्वमेव भाविता इति ॥ ३७ ॥
एवं गुणपर्यायपरिणामि द्रव्यलक्षणमिति प्रपञ्चे निर्णीते पर आशङ्कते - धर्माधर्मादीनि द्रव्याणि पञ्च स्वपरिणामलक्षणगुणपर्यायात्मकानि व्यावर्णित विविधोपकाराणि प्रदर्शितानि, तत्र कालस्यापि पूर्वमुपकारो वर्णित एव वर्तनादिगुणपर्यायलक्षणः, स च कालो द्रव्यमित्येवं न पूर्वं नाधुना व्याख्यातः, न चोपकारकमन्तरेणोपकारः समस्ति शक्यं वक्तुम्, वर्तनादिरूपकारः सोपकारकः स्थित्यादिवदुपकारत्वात्, तत् किमयं स्मृतिप्रमोषो युष्माकं येन विविक्तोपकाराधारः कालो द्रव्यं नोक्तः ? आहोस्विद् धर्मादिद्रव्यपञ्चकसाध्य एवायं वर्तनादिव्यापार इति विरचितप्रभे श्रोतरि सिद्धसाध्यतोद्विभावयिषाद्वारेण सूरिराहसूत्रम् — कालश्वत्येके ।। ५-३८ ॥
कालस्य द्रव्यत्वम्
1
टी० – विशिष्टमर्यादावच्छिन्नोर्ध्वाधोऽर्धतृतीयद्वीपाभ्यन्तरवर्तिजीवादिद्रव्यैः परिणमद्भिः स्वत एव कल्पते गम्यते प्रथ्यतेऽपेक्ष्यते कारणतयाऽसाविति कालोऽपेक्षाकारणम्, बलाकाप्रसवे गर्जितध्वनिवत्, पापविरतौ वा प्रबोधवत् चशब्दो द्रव्याकर्षणार्थः, कालच द्रव्यं षष्ठं भवति, इतिशब्द एवंशब्दार्थे, एवमिति युक्त्यभिधानेन प्रकारान्तरेण च न निर्युक्तिकं द्रव्यत्वमाचक्षते कालस्य, एके इत्यसहायार्थ एकशब्दः, एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादे केऽनपेक्षितद्रव्यास्तिकन यदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते । एतदेव भाष्येण सोपपत्तिकं स्फुटयति
भा०- एके त्वाचार्या व्याचक्षते - कालोऽपि द्रव्यमिति ॥ ३८ ॥
टी० - एके त्वाचार्या इत्यादिना । एके नयवाक्यान्तरप्रधाना विशेषेणाचक्षते - व्यक्तीकुर्वन्ति युक्त्या, परापरप्रत्ययाभिधाने तावदत्यन्तप्रसिद्धत्वान्निर्निमित्ते नाभ्युपगन्तुं शक्ये, यच्चानयोर्निमित्तं स कालः, तद्यथा - युवस्थविरयोः सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् । अथ दृष्टोऽपरदेशयुक्ते त्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च तथैव च परदेशसंयोगात् परस्मिन्नपि यून्यपरप्रत्ययोऽपराभिधानं च तावेतौ व्यतिकरस्वभावावभि
,
१' सहजक्रम ' इति क-पाठः ।
Jain Education International
२. 'दृष्टोऽर्वागूपर०' इति क-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org