________________
सूत्र ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४१३ स्वार्थमेव ब्रुवते संश्वासंश्चेति, न त्वनेकमर्थं स्वार्थमात्राभिधानान्न सहगुणद्वयाभिधायिता ॥ ननु च वाक्ये द्वयोरपि शब्दयोरेकतया युगपद्भावः, तन्न, पदेभ्यो वाक्यशब्दस्य शब्दान्तरस्वात, एक एव हि शब्द इष्यते वाक्यम्, तस्य चार्थान्तरेणकेनैव प्रतिभारूपेण भाव्यम्, अतोत्रापि गुणद्वयवचनस्य युगपच्छब्दद्वयस्यासम्भव इति । एवमुक्तात् कालादियुगपद्भावासम्भवात् समासवाक्यलौकिकवाक्ये युगपच्छब्दयोद्वयोरर्थयोश्च वृत्त्यसम्भवाद् युगपद्विवक्षायामवाच्य इत्येवं सर्वैकान्तावक्तव्यप्रतिषेधद्वारेण भाष्यकृता तृतीयविकल्पप्रणयनमकारि प्रेक्षापूर्वकारिणा कथञ्चिदवक्तव्यः, कथञ्चिद् वक्तव्योऽवक्तव्यादिशब्दैरात्मेति निरूपितम् । एतदेव च विकल्पत्रयमधुना भाष्यकारः स्फुटतरं भाष्येण दर्शयति । स्याद्वादो हि धर्मसमाश्रयः स्वसिद्धसत्ताकस्य च धर्मिणः सत्त्वासत्त्वनित्यत्वानित्यत्वाधनेकविरुद्धाविरुद्धधर्मकदम्बकाभ्युपगमे सति सप्तभङ्गीसम्भवः, तत्र सहव्यवहाराभिप्रायात् त्रयः सकलादेशाः, चत्वारस्तु विकलादेशाः समवसेयाः ऋजुसूत्रशब्दसमभिरूढैवंभूतनयाभिप्रायेण । तत्रातीतविकल्पत्रयस्वरूपभावनायेदमुच्यते
भा०-पर्यायास्तिकस्य सद्भावपर्याये वा, सद्भावपर्याययोर्वा, प्रथमो विकल्पः सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा
सत् ।
टी-पर्यायास्तिकस्येत्यादि । पर्यायास्तिकग्रहणं धर्मविषयस्याद्वादप्रतिपत्त्यर्थम्, धर्मास्त्वरूपित्वसत्त्वमूर्तत्वादिरूपा धर्मिणः परिणामिनो नात्यन्तव्यतिरिक्ता इत्यतस्तत्प्रणाडिकया धमिविषयत्वमपि द्रव्यपर्याययोः संसृष्टत्वादेवं (देवमेव), अत्र च द्रव्यास्तिकपर्यायास्तिकनयद्वयमात्रवस्तुसमाश्रयः सिद्धयति स्याद्वादः, अन्यथा पयोयनयाश्रय एव विकल्पसप्तकेन सकलव
स्तुव्यापी स्यात् स्याद्वादः, सतो भवनं भावस्तद्भावलक्षणः परिणामः, धर्मधर्मिस्याद्वादः स चानेकरूपः क्रमयुगपद्भावित्वात्, सुरमनुष्यादेर्शानदर्शनादेश्वात्मनः
सद्भावपयोयत्वं, शेषधमोदिद्रव्यवृत्ताः पुनरसद्भावपयोयाः, वर्तमानकालावधिकाः पर्यायाः सद्भावलक्षणाः, ततोऽन्येऽतीतानागतवर्तमानकालविशिष्टास्त्वसद्भावपर्यायाः, तावत् परिणामपर्यायकलापाश्चात्मादयः पदार्थाः, स्वपरपर्यायानन्तस्वभावमेकं द्रव्यं सत्तारूपेण विवक्षितम्, चेतनाचेतनाहं महासामान्यमुत्सर्गः, पर्यायाः शक्तयोऽनन्ताः, तत्र स्वपर्यायान्वयवत् परपर्यायव्यतिरेकोऽपि वस्तुस्वभावावगतेरङ्गम्, तनिवृत्त्यग्रहणे वस्तुसद्भावानहणाद् विनिवृत्तिद्वारेणैवासद्भावपर्यायोपयोगः, न निवृत्तिरभावः, स एव हि तथा स्वभावो विनिवृत्ताशेषान्यविशेषलक्षणो निवृत्तिशब्दवाच्यः, तदेवमन्वयव्यतिरेकयोर्विधिप्रतिषेधविषययोरनियमातिप्रसङ्गपरिहारार्थ चिदुत्तरकिंवृत्तावद्योत्यविषयं स्याच्छब्दाग्रेसरमपि शब्दसहितं तथाविधान्यतमशब्दविशिष्टं वा धर्मधर्मिनिर्देशवाक्यं प्रयुज्यतेऽन्तर्भूतैवकारं गुणप्रधानभावव्यक्ति
१ 'नेकविरुद्धधर्म' इति क-पाठः । २ . रूपे विव० ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org