________________
सूत्रं ३१] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
४०७ तसादुत्पन्न एवास्ति क्षणः, तस्मिँश्च नान्वयि किश्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किञ्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाऽभिधीयते, न भूततस्तदस्ति, सन्तानस्य सांवृतत्वात, ते च वर्तमानक्षणा भूयांसः, तत्रैकक्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः, द्वित्वविवक्षायामुत्पन्नास्तिके वो सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति, यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् । यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्न वा स्यात् ? यदि पूर्वः कल्पः असत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह-अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति । एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यान्नित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम्, अधुना विपञ्च्यते । तत्र द्रव्या
र्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन सदादिभङ्गाः विवक्षितत्वाच्छब्दाधीनम् , शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधा
नता१। पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः २ । अपितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीयविकल्पो विवक्ष्यते स्यादवक्तव्यमिति ३ । एते त्रयः सकलादेशाः । यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावादिहात्मादिरेकोऽर्थः सत्त्वादेरेकस्य गुणस्य रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासत्वादेस्तत्रानाश्रयणात् , तत्र द्रव्याथोश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सन्नित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गु. णिनः, न त्वेको गुणो भागवृत्तिरिति । एवं स्यान्नित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसस्त्वमनित्यत्वं चाङ्गीकृत्य स्यादसत् स्यादनित्य आत्मेति वाच्यम् । युगपत् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः ॥ का पुनर्भावना स्याद् सन्निति? किमत्र भाव्यम् ? एकं द्रव्यमनन्तपर्यायमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपयोयस्मकतया विश्वरूपम् , तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम्, द्रव्यस्य पर्यायसचिवत्वात् पर्यायाणां च द्रव्यसहायत्वात् , अतोऽनेकान्तवादसामोद वस्तुनो यदुक्तसूक्तिका, न च व्यवहारविरोधिनी, यथा घटः पटा. दिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रोन्यायः । एवं न्यायव्यवस्थायामनन्तपयोये पुरुषादो सप्तधा वाचकः शब्दः प्रवर्तते स्यादस्त्येवेत्यादिः, यथा युवत्ववृत्तिः, पुरुषः पुरुषत्वेनास्ति न तु बालवृत्या, ततः स्यादस्त्येव न पुनः सवोत्मनैव पुरुषः द्रव्या
१. द्विस्वादिविवक्षायामुत्पादास्तिके वा सती सन्त्युत्पन्नास्तिकानि वेति' इति ग-टी-पाठः। २. चेति ' इति क-पाटः। ३०कस्य रूपेण' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org