________________
सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३९९ नपुंसकलिङ्गनिर्देशः, आदिमदनादियुगपदयुगपद्भावित्रिकालविषयपर्यायार्पणभजनानेकान्तप्ररूपणो हि परिणामार्थः, तैः पर्यायैः प्रतिषेधसमग्रादेशविकलादेशैः, स्वपरार्थशब्दपर्यायभजनया च स्वं स्वं तत्त्वं पुष्णातीति विस्तरेण चरितार्थमेतत्, तत्र स्थितिलक्षणोऽन्तरगस्तत्परिणामरूपत्वात् तत्सहावस्थायित्वात् , बहिरङ्गावुत्पादव्ययौ विस्रसाप्रयोगेण च कादाचित्को द्रव्यादिभेदार प्रतिपन्नानन्तभेदौ, एवं चार्थोऽर्पितानर्पितधर्मात्मकस्तद्विषयः शब्दो व्यवहाराङ्गमतः शब्दव्यवहार एव प्राधान्येनाङ्गीक्रियते, अत्र प्रत्यर्थ च प्रतिपत्तिः शब्दात् साक्षाद् गम्यमानार्थतया च सर्वत्रैव, यतः सदेकनानानित्यानित्यादिधर्मकलापपरिकरमशेषमस्तिकायजालम्, तत्रान्यतमैकधर्मार्पणे शेषधर्माणां गम्यमानता, यतो न सद् असत्त्वादिभेदविविक्तम् , असद् वा सदादिविकल्पशून्यम् , अन्योन्यापेक्षसत्ताकत्वात् सदादीनाम्, एवं वस्तुनिश्चयः, अर्पितमुपनीतं वस्तु विवक्षितेन धर्मेण साक्षाद् वाचकेन शब्देनाभिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिकम्, अर्पितं च तद् व्यावहारिकं चेत्यर्पितव्यावहारिकम् । एतदुक्तं भवति-किश्चिद् वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयत्यपरमनर्पितमेव साक्षाद् वाचकेन शब्देन प्रतीयमानं सद्यवहाराय व्याप्रियत इत्यत आह-अनर्पितव्यावहारिक चेत्यर्थः। अथवाऽर्पितविषयो व्यवहारोऽर्पित व्यवहारः शब्दपरिप्रापितव्यवहार इत्यर्थः । सोऽस्य सतोऽस्ति नित्यस्य चेत्यर्पितव्यावहारिकं सन्नित्यं च, एवमनर्पितव्यावहारिकमपि द्रष्टव्यमसदनित्यं च यदा चासदनित्ये शब्देन साक्षात् प्रतिपिपादयिषिते तदाऽर्पिते ते, इतरे तु सनित्ये गम्यमाने तत्रानर्पिते भवतः, तस्मादेकत्र वस्तुन्यर्पितधर्मपरिग्रहोऽनर्पितधर्मसत्तानान्तरीयकः, यथा कृतकत्वधर्माभ्युपगमोऽनित्यत्वसत्तानान्तरीयकः, एकत्यागश्चापरपरित्यागाविनाभावी, यथा अनित्यत्वपरित्यागे कृतकत्वपरित्यागोऽवश्यंभावीति,चशब्दः समुचिनोति सर्वान् विकल्पान्, इतिशब्दो हेतौ, यस्मादर्पितधर्मविषयः शब्दव्यवहारस्तस्मादर्पितानर्पितसिद्धेः सन्नित्ये असदनित्ये च विवक्षावशात्, अवधारणे वा, एतावानेव शब्दव्यवहारो यदुतार्पितानर्पितधर्मविषयो नान्य इति, अर्थ इत्यभिधेयप्रतिपत्तिमाचष्टे, समासत एषोऽर्थः सूत्रस्येतियावत् । धर्मार्थकाममोक्षलक्षणः सकलः पुरुषार्थस्तद्योग्य व्यवहारार्पणाभ्यां यथावदधिगम्यत इति ॥
भा०-तत्र सचतुर्विधम्, तद्यथा-द्रव्यास्तिकं, मातृकापदास्तिकं, उत्पनास्तिकं, पर्यायास्तिकमिति ।
टी०-तत्र सच्चतुर्विधमित्यादि । तत्र-तेषु सन्नित्यासदनित्येषु सतो भेदानाचष्टे , सच्चतुर्विधमेव, न त्रिधा न च पञ्चधा, तदुद्देशार्थमाह-द्रव्यास्तिकमित्यादि । उस्पादादिमूलभेदान्तःपात्येव, सविपर्ययद्रव्यादिभेदप्रपञ्चस्त्रैरूप्येऽप्येकस्य धर्मिणः परिणामसमूहस्वभावस्योत्तरोत्तरभेदप्रदर्शनार्थः, एवंविधोपन्यासे च सर्वतत्पर्यायाकाङ्क्षा, तावत्परिणा
१ 'विक्तम्' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org