________________
सूत्रं ३१ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३९७ द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, कदाचिद् द्रव्यं विवक्ष्यते, न पर्यायः, कदाचित् पर्यायो विवक्ष्यते, न द्रव्यम्, उभयं तु सम्भवति, त्वयाऽप्येककालयोरेव प्रतिबन्ध्यप्रतिबन्धकभावोऽभ्युपेयते, अन्यथा स एव न स्यात् प्रतिबन्धः, अतो न कश्चिद् विरोधः। सदसतोर्नित्यानित्ययोर्वा भिक्षुवरधर्मकीर्तिनापि विरोध उक्तः प्रमाणविनिश्चयादौ स पुनरयं विरोधः कथं गम्यते, कचिदविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिर्भवति, यथा शीतोष्णस्पर्शयोरसहावस्थानम्, अन्योन्यपरिहारस्थितिलक्षणतया वा विरोधो नित्यानित्यवत
अन्योन्यं परस्परं व्यवच्छेदः-परिहारस्तेनान्योन्यपरिहारेण स्थितिधर्मकीर्तिमतखण्डनम् लक्षणोऽन्योन्यव्यवच्छेदरूपः, परस्परपरिहारस्थितिलक्षणतया च विरो
धिनोनित्यनित्ययोरेकपरिग्रहोऽपरत्यागनान्तरीयकः एकत्यागोऽप्यपरपरिग्रहाविनाभावी, तथा भावाभावयोरेकत्राभावः, एष च प्रतियोगिव्यवच्छेदरूपः सामयिकोऽसहावस्थानभेद एव, पूर्वकस्तु शीतोष्णस्पर्शयोश्छायातपयोः प्रकाशतमसोश्च दृश्यात्मनोः परिनिष्पन्नयोरेकत्राभावादनुपलब्धिलक्षण इत्येतावान् विशेष इति । अत्रोच्यते-तार्किकापशब्देन न किञ्चिदत्रातिरिक्तमपदिष्टम् ॥ यदप्यपादेशि तदप्यसमीचीनम्, यतोऽसहावस्थानलक्षण एव विरोधो द्विधा कल्प्यते, नामैव च लक्षणं, न सहावस्थानं लक्षणं यस्य विरोधस्येत्यनेनैव शीतोष्णस्पर्शयोरिव नित्यानित्यविरोधस्यापि सङ्ग्रहीतत्वाद् भेदेनाभिधाने प्रयोजनाभावाद् दुर्विदग्धतामात्रमेवावशिष्यते भिक्षुवरस्य । स्यादियमारेका, दृश्यपरिनिष्पन्नयोः प्राच्यः, इतरः परिकल्पितरूपयोः स्वसामान्यलक्षणविषयत्वेन भेदप्रकाशनमिति, एतदप्यसङ्गतम्, स्वलक्षणभेदानामानन्त्यात् परिकल्पबहुत्वाच कुतो द्वैविध्यम् । अपिच नित्यता भवतु परिकल्पः, अनित्यता पुनः संस्कृतलक्षणम्, “ उत्पत्तिः स्थिति राजनित्यते"ति वचनात । दिग्नागेनाप्युक्तम्, “नित्यसमायां जातौ स एव तु भावोऽभूत्वा भवन् भूत्वा वाऽभवन्ननित्य इत्युच्यते, सा चावस्था भावप्रत्ययेनानित्यते"ति, एवं च न नित्यानित्ययोः सामान्यलक्षणयोविरोधः, नापि स्वलक्षणासामान्यलक्षणयोः, स्वलक्षणोपादानत्वात् सामान्यलक्षणस्य, परिकल्पितयोश्च खरतरगविषाणयोर्विरोध इत्यद्भतमपश्यद् भिक्षुवरः, तस्मात् स्वलक्षणविषय एव विरोधोऽस्तु, तत्रापि न स्वलक्षणमित्येव विरोधः, किन्तु द्रव्याणां द्विविधाः पर्यायाःक्रमभुवः सहभुवश्च, युगपदवस्थायिनोऽयुगपदवस्थायिनश्च, सूक्ष्माः स्थूलाच, साध्याः साधनानि चें, व्यापूताश्चान्यापृताश्च, यथा घटे सद्रव्यमूर्ताचेतनरूपरसगन्धस्पर्शसङ्ख्यासं
१ लक्षणाऽन्योन्यव्यवच्छेदरूपाः ' इति क-ख-पाठः। २ स्पर्शयोर्नित्यानित्य ' इति क-ख-पाठ ।
३ नित्यमित्युक्तेऽनित्यतापरिहारस्यावश्यकत्वात् शीतोष्णसमानता तत्त्वतस्तु अवयवभेदेन कालादिभेदेन वा न क्वापि विरोधः।
४'या' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org