________________
सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३९३ दुरुपपादत्वात् दुःश्रद्धानत्वाचासङ्गतम्, नित्यता ह्युत्पादव्ययौ विरुणद्धि, उत्पादव्ययौ च नित्यतां विरुन्धाते, सोऽयं छायातपवदसहावस्थानलक्षणविरोधाघ्रातपक्षो न विद्वज्जनमनांसि प्रीणयतीति, अत्रोच्यते-श्रद्धत्तां भवानुपपाद्यमानं यथा न कश्चिद् विरोधः समस्ति, यथा चात्रैव लोकव्यवहारसङ्गतिर्द्रव्यास्तिकपर्यायास्तिकनयसम्भवेऽन्यतरप्रधानगुणभावविवक्षाप्रापिते उभे अपि सन्नित्यत्वे तत्प्रतिपक्षभूते वाऽसदनित्यत्वे ॥
सूत्रम्-अर्पितानर्पितसिद्धेः ॥ ५-३१॥ टी०–अपरेऽन्यथाकारं सूत्रसम्बन्धमभिदधते, धौव्यस्य नित्यपर्यायत्वेन लक्षणमुक्तमुत्पादव्यययोरुच्यताम्, नोच्यते, तयोर्लोकप्रतीतत्वात्, सामर्थ्यगतेश्वासदनित्यत्वादीनाम्, अतस्तल्लक्षणं न साक्षाद् वाच्यम्, किं कारणम् ?
भा०-अर्पितानर्पितसिद्धेः ॥
टी–अर्पितं निदर्शितमुपात्तं, तद्विपरीतमनर्पितम्, सिद्धिः-ज्ञानम्, अर्पितेनानर्पितपरिज्ञानमर्पितानर्पितसिद्धिस्तस्याः-ततो हेतोरपितानर्पितसिद्धेः,विशेष्यं हि वस्तु नीलोत्पला
दिवदुपादीयमानं नियमकारिविशेषणधर्मप्रत्यनीकपर्यायाश्रयतामनुअर्पितानप्तिस्वरूपम् भवत्येवेति न्यायात्, एवमिहापि ध्रौव्यलक्षणेऽर्पितेऽनर्पितावपि साक्षात्
तद्विपरीतावुत्पादव्ययौ सङ्गस्येते, पूर्वमुत्तरं च पर्यायं धौव्यमासादयति, न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा पूर्वोत्तरपर्यायानुभावी, तस्माद् विलक्षणावुत्पादव्ययाविति सुज्ञानम्, एवं सम्बन्धद्वयमभिधाय सूत्रार्थोऽभिधीयते, पूर्वकं सम्बन्धमाश्रित्येदं भाष्यम्--
भा०-सच्च त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पितसिद्धेः ॥
टी०-चशब्दः समुच्चये, अपिः सम्भावने । सत् त्रिविधमुत्पादव्ययस्थितिलक्षणम्, नित्यं च द्वितीयसूत्रोक्तमुभयमप्येतदर्पणानर्पणाभ्यां सिद्धमव्याहतम् अनेकधर्माधर्मी, तत्र प्रयोजनवशात् कदाचित् कश्चिद् धर्मो वचनेनाप्यते-विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात्, न पुनः स धर्मी विवक्षितधर्ममात्र एव । इत्यतः सत्पर्यायविवक्षायां सदु
त्पादादिस्थित्यंशविवक्षायां नित्यमसदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्व विवक्षामुख्यता विशिष्टग्रहणात् सर्वदा वस्तुनः येन प्रमाणेन यद् वस्तु सद्विशिष्टं गृह्यते, तेनैव प्रमाणेन तदेव तदैव वाऽसद्विशिष्टमपि गृह्यते, अन्यथा त्वविविक्तग्रहणमेव स्यात, विविताश्च चक्षुरादिबुद्धयोऽनुभूयन्ते । यथैव हि स्वास्तित्वात् सद्विशेषणोल्लेखेन सद्भुद्धिरभिधावति, एवं असद्विशेषणावष्टम्भजनिताऽपीति ॥ न चोपहतेन्द्रियस्याव्यातेन्द्रियस्य वा वस्त्वन्तराभावविशिष्टं ग्रहणमुपजायते तत इन्द्रियव्यापारे सति भावादसद्विशिष्टस्य ग्रहणस्य नापह्नवो यु
५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org