________________
३७२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः५ प्रागुपदिष्टमणुवर्जानां विहेतुकोत्पत्तिःसङ्घातभेदेभ्य उत्पधन्त इत्यत्र सूत्रे, स एष व्यणुकादिष्वचाक्षुषेषु क्रमस्तद्विपर्ययभाजस्त्वेकान्तेनैव स्कन्धाः समुपजायन्ते ॥ २७ ॥
सूत्रम्-भेदसङ्घाताभ्यां चाक्षुषाः॥ ५-२८॥ भा०-भेदसङ्घाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषास्तु यथोक्तात सङ्घाताद् भेदात् सङ्घातभेदाचेति ॥ २८ ॥
टी०-चक्षुष इमे गोचरीभूता इति तस्येदं' (पा० अ० ४,पा०३, सू० १२०) इत्यण । चक्षुग्राह्याश्चाक्षुषाःप्रयोगविरसाजनितात् साङ्गत्यादायत्या स्कन्दनात् स्कन्धाः ते त्वीदृश्या उत्पद्यन्ते, ये च चक्षुषा गृह्यन्त इति, न त्वयं नियमो भेदसङ्घाताभ्यामुत्पन्नाः सर्वे चाक्षुषा भवन्ति, यतो भेदसङ्घाताभ्यामचाक्षुषाणामप्युत्पत्तिः, अत एवं व्याख्येयम्-स्वत एव परिणतिविशेषाञ्चाक्षुषत्वपरिणामभाजो बादराः स्कन्धाः सङ्घातभेदाभ्यामुत्पद्यन्ते इत्येतनियम्यते॥ अपरे वर्णयन्ति-सङ्घातादेव स्कन्धानामात्मलाभसिद्धर्भेदसङ्घातग्रहणमनर्थकम् , नैतदेवम् , तद्विशेषज्ञापनार्थत्वात्, न सर्व एव सङ्घातश्चक्षुषा ग्राह्यः, यतोऽनन्तानन्ताणुसंहतिनिष्पाद्योऽपि स्कन्धो बादग्परिणतिमानेव नयनादिगोचरतां प्रतिपद्यते, न शेष इति । एवं च व्याचक्षाणानां भेदग्रहणमनर्थकमेव स्यात् तच्चायुक्तम्, यतः सूक्ष्मपरिणामोपरतौ स्थौल्यपरिणामः, तत्र च यथा संहन्यन्ते परमाणवस्तथा भियन्तेऽपि च केचनेत्यतःसङ्घातभेदाभ्यामेव चाक्षुषा निष्पधन्ते, न सङ्घातादेवेति ॥ ननु चाचाक्षुषाणामणूनां समुदायस्तन्मात्रः, स कथमनाहितातिशयश्चाक्षुषः स्यात् ? । उच्यते-सर्वस्य वस्तुनः सतः परिणामात् परिणामान्तरं कथञ्चिद् भिद्यत एवेत्यणुत्वपरिणामाचक्षुर्विपयपरिणामो भिन्नः, परमाणवो हि अणुत्वपरिणामपरिणतत्वमपहाय बादरपरिणाममागृह्णते रौक्ष्यस्नेहविशेषात्, अष्टविधः स्पर्शो भगवद्भिरुक्तः स्कन्धेषु यथासम्भवम्, परमाणुषु पुनश्चतुर्विधः स्पर्शो नान्यः, स च शीतोष्णस्निग्धरूक्षाख्यः, तत्राप्येकपरमाणी परस्पराविरोधिद्वयं समस्ति, अत्र च बन्धपरिणामे स्पशेद्वयमुपयुज्यते स्निग्धरूक्षलक्षणम्, केचित् स्निग्धपरिणामपरिणताः केचिद् रूक्षपरिणतिभाज इति, उभयस्य तु विरुद्धत्वादेकस्मिन् परमाणावसम्भवः, तत्राप्येकगुणस्निग्धत्वपरिणता इत्यादि यावदनन्तगुणस्निग्धत्वपरिणतास्तथा रूक्षत्वेऽपि । परमाणवश्व सर्वेऽपि सजातीयाएव, न केचित् विजातीयाः, रूपादिचतुर्गुणत्वं सर्वेषां स्पर्शवत्वादिति द्रष्टव्यम्, एवं च तेषां रौक्ष्यस्नेहविशेषाद् भवति द्रव्यान्तरेण बन्धपरिणामस्तादृशो येन प्रचय विशेषान्महत् स्थूलं घटाघभिनिवर्त्यते श्लेषमृद्रजः सम्बन्धितणादिवदित्यतस्तन्मात्रत्वमनाहितातिशयत्वं न सङ्गच्छते, एवं चोपवर्णितस्वगतभेदाभ्युपगमानिरतिशयत्वं सर्वथा सर्वप्रकारं न केपांचिदुपपद्यते पदार्थानाम्, न चात्यन्तिक एव भेदः, किन्तु किंचित् सामान्यमप्यस्त्येव, न च केवलः परिणाम एवैन्द्रियकत्वे कारणं भवति, किन्तु प्रतिविशिष्टानन्तसङ्ख्यासङ्घातापेक्षः परिणामः स्थूलः प्रतीन्द्रियनियतविषयतामास्कन्दति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org