________________
सूरिकृतीका ]
सम्बन्धकारिकाः
निर्दिशति — अर्हन्नेव, नाम्नः प्रयोजनमुक्तं निरुक्तद्वारेण पूजामर्हतीति, एवावधारणे अयमेवासावुत्तमोत्तमो नान्य इति । लोके, कृत्स्नेऽपि जगति नैकदेशे । कुतः पुनः पूजामर्हतीत्याह – देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् । देवेभ्य ऋषिभ्यो नरेन्द्रेभ्यः प्रत्येकमिन्द्रशब्दः । पूज्येभ्योऽप्यन्यसत्त्वानामिति माहात्म्यख्यापनमेव, अन्यसत्त्वानां देवादयः पूज्यास्तेभ्योऽप्यर्हति पूजामर्हन्निति । एवं चान्येभ्योऽपि पूजामर्हतीति व्याख्यातमेव, नहि राजनि समुत्तिष्ठति पर्षदुत्थानं प्रति वितर्कः । स तावदर्हतु पूजां, अथ पूजकानां तु कृतार्थमकोपप्रसादमर्चयतां का गुणावाप्तिः १ नैवं शङ्कयम्, दृश्यते हि अग्निरकोपप्रसादोऽपि सेवकानामीप्सितनिर्वृत्तिहेतुः स्यात् । अग्नेरिव दाहाद्यनीप्सितमपि तस्माद् भविष्यतीति, तचैवं, दुष्टबुद्धयो रागद्वेषमप्यग्निमिवान्यायेन सेवमानाः स्वाशयदोषादेव शशिनीव लोष्टुक्षेपमात्मोपघाताय कर्मोपचिन्वन्ति, खपरिणामो हि नः प्रवचने प्रधानं कर्मोपचय हेतुरित्युपदेशः, वक्ष्यति च शास्त्रे " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" ( अ० ७, सू० ८ ) इत्येवमादिषु ॥ ७ ॥
"
ननु चात एव ते सुतरामचर्हा यदुत निराकृतरागद्वेषमलाः । नहि कलुषमुदकं मलविशुद्धये, यद्येवमुच्यतां तर्हि तदचनात् किं हितमवाप्यत इत्याहअभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्व |
तस्मादपि निःश्रेयस-मतो हि तत्पूजनं न्याय्यम् ॥ ८ ॥ आर्या व्या० - अभ्यर्चनादर्हतामिति । अभ्यर्चनात् पूजनात्, अभिगमनस्तुतिवन्दनपर्युपासनादेः, :, केषाम् अर्हतां, कर्मणि षष्टी, अर्हन्तोऽभ्यर्च्य इत्यर्थः । किं भवतीत्याह - मनः प्रसादः मनसः प्रसादः, प्रसीदति मनः । न चैतदाशङ्कयम्, प्राक् पूजनादप्रसन्ने मनसि पूजनप्रवृत्त्यभाव एवेति, भवति हीश्वरानुवृत्त्यादिभिरपि प्रवृत्तिः, सा च लौकान्तिकविधौ वक्ष्यते । पूजनात् ऊर्ध्वं प्रायेण मनसि प्रसादाभिप्रायः, लोकेऽपि प्रसन्नमनसामपीष्टजनादिसमागमानन्तरं मनः प्रसाद इति प्रतीतम् । ततः किमित्याह - ततः समाधिश्च तस्मान् मनःप्रसादात् समाधिरेकाग्रता निर्विप्लवमनस्त्वं निर्वृतिर्भवति । चशब्दः समुच्चये, समाहितस्य सतः शुश्रूषा, ततः श्रवणं, श्रवणाद ग्रहणधारणोहापोहाः, ततः संसारतत्त्वाधिगमः, तस्माद्धिताहितप्राप्तिपरिहारावित्येवमादयश्रेति, तस्मादपि निःश्रेयसं, तस्मादपि समाध्यादिगुणावाप्तितारतम्यान् न्निःश्रेयसमधिगम्यत इति । अतो हि तत्पूजनं न्याय्यम्, यत इयं कल्याणपरम्परा निःश्रेयसनिष्ठा निर्वर्तते, तत एव तेषां कृतार्थानामपि सतामर्हतां पूजनं न्यायादनपेतमिति सिद्धम् । एवं च कृतार्थत्वेऽपि सुतरामर्हत्पूजनं न्याय्यमिति दर्शितं भवति । अधुना हि सत्त्वाः प्रायोऽलसाः केशादिभीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्वा द्रव्याद्यपेक्षकर्मोपशमादिलव्धमोहनीय विवरप्रसन्न - मनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते, ततो दर्शनादिलाभ इति । केषांचिच्चाधिगतदर्श
१' अलं शुद्धये ' इति क-पाठः !
२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org