________________
सूत्रं २५ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
भा०- त एते पुद्गलाः समासतो द्विविधा भवन्ति ॥ तद्यथाटी० - त एते पुद्गला इत्यादिसम्बन्धग्रन्थः । सत्यपि पुद्गलजातीयत्वे निरवयवसावयवभेदात् परिप्राप्तानन्त्या अपि आहितद्वैविध्या वेदितव्या इत्यभिप्रायः, य एते स्पर्शादिशब्दादिपरिणतिभाजः पुद्गलास्ते संक्षेपाद् द्विविधा भवन्ति, द्वैविध्योपन्यासाय तद्यथेत्याहसूत्रम् — अणवः स्कन्धाश्च ॥ ५-२५ ॥ द्वैविध्यम् टी० - अण्यन्त इत्यणवोऽस्मदादीन्द्रिय व्यापारातीतत्वात् केवलसंशब्दनसमधिगम्याः सौक्ष्म्यात्, स्थौल्याद ग्रहणादानादिव्यापार समर्थाः प्रायः स्कन्धाः सङ्घाताः इति, चशब्दः समुच्चेता, समस्तपुद्गला एव द्विविधाः - परमाणवः स्कन्धाश्चेति, तत्र परमाणोर्लक्षणमाचार्यैः पूर्वकैरेवावाचि तदुपन्यासाय उक्तं चेत्याह
पुद्गलानां
भा०- उक्तं च
"कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो, द्विस्पर्शः कार्यलिङ्गश्च ॥" - आर्या
Jain Education International
+vs
इति ।
टी० - कारणमेव तदन्त्यमित्यादि । करोतीति कारणं सकलभेदपर्यन्तवर्तित्वादन्त्यं, व्यणुकस्कन्धप्रभृति स्थूलसूक्ष्मभेदं कार्य यावदचित्तमहास्कन्धः, स एष कारणकार्यविभागः कारिकया निरूप्यते - मूर्तस्य वस्तुनः कारणं परमाणवो व्यणुकादेः, अमूर्तस्य ज्ञान - देरात्मादयः, तच्चोभयमपि कारणं न सर्वथा नष्टम्, असत्वापत्तेः, न च तादृगवस्थं किञ्चिज्जनयति व्योमपुष्पादिवत्, नानष्टमेकान्तेनैवाविकृतत्वात् प्रागवस्थावत्, न चान्यावस्थाऽस्त्येकान्तवादिनः कार्यकारणाभ्युपगतौ ॥ ननु चावक्तव्यपक्षः प्रज्वलति पक्षान्तरत्वात् इत्ययुक्तम्, अवक्तव्यतायाः सुदुःस्थितत्वात्, वक्तुमशक्यत्वात् तावदवक्तव्यं न भवति, लोके तथा प्रतीतत्वात्, नाज्ञानात्, आप्तस्य तदनुपपत्तेः, नाभावाद् वस्तुनः, तथादृष्टत्वात् एवं तर्ह्ययमन्यः पक्षः कारणकार्य योनाशोत्पाद समकालत्वात्, एषाऽपि हि व्यवस्था नातिक्रामति पूर्व विकल्प - यम्, यतः कारणं नष्टं कार्य चोत्पन्नम् । अनष्टे तावत् कारणे न कार्योत्पाद: । अथैवं मन्येत - कारणं च विनश्यति कार्य चोत्पद्यते, तदपि विचाराक्षमम्, तत्र विनश्यतीत्यनेन विनाशक्रियाविष्टमेकं वस्तूच्यते स्वरसभङ्गरं वर्तमानकालावधि कम नासादितसमस्त नाशमर्धनष्टमतोऽयं बाह्यार्थः किंचिन्नष्टं किञ्चिच्चानष्टमुभयधर्माघातं विनश्यतीत्यनेन प्राप्तक्रियापवर्गमार्गमभिधीयते वस्तु, न चैवमसम्बद्धबुद्धव्याहारोपहतचेतसः सौगताः सङ्गच्छन्ते, अभिनैकतुलादण्डकद्रव्यप्रतिबद्धान्तद्वयस्य वा युक्ते नतोन्नती समकमत्र तु विनश्यति वस्तुनि नैकं किञ्चिदभिन्नमस्त्यन्वयि प्रदीर्घतुलादण्डकाकृति कारणं यत्प्रतिबद्धौ नाशोत्पादौ युगपद् भवेताम्, पूर्वोत्तरक्षणयोश्चात्यन्तभेदे सभागसन्ततिरियं विसभागसन्ततिरेषेति व्यपदेशा भावात् स्वसन्ततौ फलाधानमसाम्प्रतम्, नहि बुद्धसन्तानोऽस्मत्सन्ताने फलमाधातुमुत्सहते, तस्माद् यत् किञ्चिदेतत् ।। प्रकृतमनुश्रियते तत्र परमाण्वात्मादि परिणामिकारणम्, तस्मिन् १' विनश्यतीत्यप्राप्तः' इति क ख - पाठः ।
For Personal & Private Use Only
३६५
www.jainelibrary.org