________________
सूत्र २४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३६३ णामो भिद्यमानवस्तुविषयत्वात् , तव्यतिरेकेणानुपलब्धेर्भिनद्वयमेव भेदः, तत्रौत्कारिकः
__समुत्कीर्यमाणदारुप्रस्थभेरीबुन्दाघर्षादिविषयः, अवयवशश्चूर्णनं चौर्णिमदाना पचवित्वम् कः क्षिप्तपिष्टमुष्टिवत् , खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् , प्रतरभेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः, अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनम् , इतिशब्देन भेदेयत्तामवधारयति ॥
भा०--तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः ॥
टी०-तमश्छायेत्यादि भाष्यम् । समानविचारत्वादेकप्रघट्टेन निर्देशः, एते च तम श्छायादयः पुद्गलद्रव्यपरिणामजा इति प्रतिपादयति । तमस्तावत् पुद्गलपरिणामो दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवद् आवारकत्वात् पटादिवत्, छायाऽपि शिशिरत्वादाप्यायकत्वाज्जलवाता
दिवत्, आतपोऽपि तापकत्वात् स्वेदहेतुत्वादुष्णत्वादग्निवत्, उद्योतश्च तमश्छायादीनां मूर्त- चन्द्रिकादिराह्लादकत्वाज्जलवत् प्रकाशकत्वादग्निवत्, तथाऽनुष्णाशीतद्रव्यविकारता त्वात् उद्योतः पद्मरागोपलादीनाम् ,अतो मूर्तद्रव्यविकारस्तमश्छायादिः॥
ननु च द्रव्यगुणकमेनिष्पत्तिवैधम्याद् भावाभावस्तमः, यदि चेदं द्रव्यं भवेदनित्यत्वाद् घटादिद्रव्यवत् निष्पोत, न च द्रव्यवनिष्पद्यते, अमूर्तत्वादस्पर्शत्वात प्रकाशविरोधादणुभिरकृतत्वाच, नापि गुणः, तदाधारानुपलब्धेः प्रकाशविरोधाच्च, कर्मापि न भवति, तदाश्रयानुपलब्धेः संयोगविभागसंस्काराहेतुत्वात्, अतस्तेजसो यत्राभावस्तत्र तमः, तथा तेजसो द्रव्यान्तरावरणाच्च तमो भवतीति । अत्रोच्यते-व्यवधानक्रियासामर्थ्यात् कुड्यादिवत् तमः पौगलम् , अमूर्तत्वास्पर्शत्वपरमाण्वकृतत्वान्यसिद्धानि मूर्तत्वादियोगात् तमसः, सत्यपि च मूर्तत्वादिमत्त्वे न स्पर्शादयोऽस्मदादिभिर्लक्ष्यन्ते, तमसस्तथाविधपरिणतिभाक्त्वाद् वातायनदृश्यरेणुस्पर्शादिवत् । यत् तूक्तं-'प्रकाशविरोधात्' इति, न किल
किञ्चित कार्यद्रव्यं तैजसेन प्रकाशेन विरुध्यते, तमस्तु प्रकाशविरोधि, तमसः पुद्गलत्वम् तस्मान्न पृथिव्यादिकार्य तम इति, एतदयुक्तम् , तेजःप्रकाशयोरेकत्वा
भ्युपगमात् , जलद्रव्यं च विरोधकमित्यसिद्धार्थतैव, स्यादारेकानिरन्तरधारं वर्षति बलाहके प्रदीपोऽलिन्दकादिव्यवस्थापितः प्रद्योतत एव बहिः, यदि च विरोधः स्यान बहिः प्रकाशो विभाव्येत, जलपातेनापनीतत्वादिति । अत्रोच्यतेप्रादीपाः पुद्गलास्ताथात्म्यमपरित्यजन्तो निःसृताः तथाविधतामुदबिन्दुसम्पको विजहति, तत्समकालं चापरे प्रदीपशिखया विकीर्णाः कृशानुपुद्गलास्तमाकाशमश्नुवते, न च ते जलपातेन विध्यापयितुं शक्याः, परिणामवैचित्र्याद् वडवानलावयवा इवेति, स्याद्वादिनां च
१ 'कभदीबुन्दाघ' इति क-ख-पाठः। २ 'भावस्तमः' इति क-ख-पाठः । ३प्रदीपरस्मीनां पुष्करावर्तधारामिरप्यनुपघातात् , न सर्वथा जलानलयोर्विरोध एव , उत्पत्तिस्थान एव विरोधः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org