________________
स्थौल्यस
द्वैविध्यम्
सूत्र २४ ]
स्वोपजभाष्य-टीकालङ्कृतम् भा०-सौम्यं द्विविधम्-अन्त्यमापेक्षिकं च । अन्त्यं परमाणुष्वेव, आपे
क्षिकं च घणुकादिषु सङ्घातपरिणामापेक्षं भवति । तद्यथासौक्ष्म्यस्य द्वैविध्यम्
आमलकाद बदरमिति ॥
टी-सौक्षम्यं द्विविधमित्यादि । सूक्ष्मता सौक्ष्म्यं-पुद्गलपरिणामः, तद् द्विधा, अन्ता-विभागाः परमाणवस्तद्भवमन्त्यमन्यत्रासम्भवात् परमाणुष्वेवेत्युच्यते, अपेक्षा-प्रतीत्यबुद्धिस्तत्प्रयोजनमापेक्षिकम्, घणुकस्कन्धस्यणुकाद्यपेक्षया सूक्ष्मः चतुरणुकादीन् प्रतीत्य व्यणुकस्कन्धः सूक्ष्म इत्यादि बहुभेदम्, सङ्घातपरिणामः-स्कन्धपरिणामस्तदपेक्षं भवति । तद्यथेत्यनेन निदर्शनोपन्यासं सूचयति, आमलकं प्रतीत्य बदरं सूक्ष्मम्, आदिशब्दार्थ इतिशब्दः॥ . भा०-स्थौल्यमपि विविधम्-अन्त्यमापेक्षिकं च । सङ्घातपरिणामापे
_ क्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवस्य ति । आपेक्षिकं बददिभ्य आमलकादिष्विति ॥
टी-स्थौल्यमपीत्यादि । स्थूलभावः स्थौल्यं-परमाणुप्रचयपरिणामः, तत्रान्त्यमशेषलोकव्यापिन्यचित्तमहास्कन्धे, इह चावयव विकासः स्थौल्यं विवक्षितम्, प्रवचने त्वयं सूक्ष्मपरिणाम एवाधीतः, यदि च बादरः स्थूलपरिणामः स्यात् ततो महामहीध्रवत् समस्तं लोकमुत्सादयेदतः स्थौल्यं विकासितावयवानामचक्षुर्गम्यम्, आपेक्षिकं तु बदरादामलकं स्थूलमामलकाद् दाडिमम्, इह तु विकासे सत्यप्यवयवानां बादरः परिणामः, ततश्चामलकांदिनेयनोपलभ्यम् ॥.
भा०-संस्थानमनेकविधम् । दीर्घहस्वाद्यनित्थन्त्वपर्यन्तम् ॥ __टी०-संस्थानमित्यादि । आकृतिः संस्थानं रचना सन्निवेशः, तद् द्विविधमात्मानात्मपरिग्रहात, तत्रात्मानः पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च, क्रमेणैषो मसूरस्तिबुकसूचीकलापपताकानित्थन्त्वसंस्थानानि, पुद्गलकृतानि शरीराणीतियावत, विकलेन्द्रियाणां हुण्डकं त्रयाणामपि वपुः, पञ्चेन्द्रियाणां षोढा शरीरसन्निवेशो यथासम्भवं नामकर्मोदयनिवृत्तः समचतुरस्र न्यग्रोधपरिमण्डल-सादि-कुब्ज-वामन-हुण्डलक्षणोऽनया गाथया विभावनीय:
"तुल्लं वित्थडबहुलं, उस्सेहबहुं च मडहकोहं च । ,
हिडिल्लकायमडह, सव्वत्थासंठियं हुडं ॥"-आर्या अथाजीवपरिगृहीतं वृत्त-व्यस्र-चतुरस्रायत-परिमण्डलभेदात् पञ्चधा, तत्र वृत्तं द्विविधं युग्मायुग्मभेदात्, युग्ममपि द्विविधं प्रतरघनभेदात, तत्र प्रतरयुग्ममिदं जघन्येन द्वादशप्रदेशम्, इदमेव च युग्मं घनवृत्तं भवति द्वादशभिरन्यैः प्रक्षिप्तमध्यमेषु च चतुर्यु घरकेधूपर्य
१ अवित्तमहास्कन्धः स्थूलताऽभावात् अपर उत्कृष्टप्रदेशिको ग्राह्यः, यतस्तस्याष्ठस्पर्शवत्ता, न त्वचित्तमहास्कन्धस्य । २ प्रथयविशेषेण स्थूलरूपेण धूमादिवत् व्यापकत्वेऽपि नोत्सादनम् । ३ 'कादि नियतोपलभ्यम् ' इति क-ख-पाठः ।
४ तुल्यं विस्तृतबहुलं, उत्सेधबहुलं च मडभकोष्ठं च । अधस्तनकायमडभ, सर्वत्रासंस्थितं हुण्डम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org