SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सूत्रं २२] ___ स्वोपज्ञभाष्य-टीकालङ्कृतम् तथा शिशिरे-अतिदुर्भगशशाङ्ककिरणे परिपाकसुरभिफलसम्पद्विनम्यमानशाखाभराः फलार्थिभिः शिशुकदम्बकैरनुगततला बदरीतरवः, तुहिनशिलाशकलविशदकुन्दमालतीकुसुम वासवाहिनो मारुताः, प्रियङ्गुरोध्रप्रसवसनाथानि दिङ्मुखानि, प्रलीनाः शिशिरवर्णनम् पङ्कजाकराः सायामा यामिन्यः, कश्मीरजागुरुगन्धाढ्यगर्भगेहशायिनः ___ सुखिनस्तपस्तपस्यनाम्नोर्मासयोः ॥ तथा वसन्ते-समन्ततः किञ्चिद्विभाव्यमानकुसुमाः कुन्दयष्टयः केसरतिलककुरबकशिरीषकोल्लप्रसूनजृम्भमाणपरागभाजः समीरणाः तरुणजनहृदयहारिणः, सहकारमञ्जरीरजःपुञ्जपिञ्जरितविग्रहाः कुसुमासवपानवशगताः सहचरीपक्षपातैराच्छुरन्तः कलगिरो बद्धमण्डलाः कातरजनान् रागपरिवृतः कुसुमधनुषो गोचरीकुर्वन्तः परिपतन्ति वनावसन्तवर्णनम् नि मधुपाः, परभृतकुलकलनिनादकोलाहलप्रतिवध्यमानगमनाः पदे पदे . प्रस्खलन्तः पलाशवनानि कुसुमभरभाञ्जि ज्वलदनलकूटानीव पुरः प्रेक्ष्यमाणा मलयवायुवेगावधूतचम्पकरजःपटलैरवकीर्यमाणलोचनपुटाः प्रत्यावर्तन्त एव पथिकसार्थाः, परिणतविम्बफलच्छविभिरशोकपुष्पप्रकरैरुपशोभिताश्च सर्वतो दिशां भागा मासयोमधुमाधवाभिधानयोः॥ ___ तथा निदाघसमये-दहनमिव किरणनिकरैः किरन् किरणमाली भुवस्तलमास्तीर्णाङ्गारप्रकरमिव करोति, चीरीविरावद्राधीयांसो दिवसाः कथञ्चिदपवाह्यन्ते पथिकजनैः, आवाहोपकण्ठप्ररूढद्रुमच्छायाधिश्रयितश्रान्तकार्पटिकधोरणध्वानपरिपूरिता दिगाभोगाः, चन्दनपङ्का गरागपरिपाण्डुराः किङ्करकरोत्क्षिप्ततालवृन्तश्वसनशीतलितशरीराः शिग्रीष्मवर्णनम् शिरेषूपवनेषु सरित्सरसीतीरेषु च विविधधारागृहान्तर्गता भोगिनो निरस्तधर्मप्रसरमभिरमन्ते, करिदशनशकलधवलमल्लिकाकोरकबहलपरिमलहारिणः परिमलितपाटलप्रसवाः सायं प्रातश्च पवना विलासिनां मदनमादीपयन्तः सुरभयो विचरन्ति, अरॅण्यान्यः कठोरकठिनकन्धरवराहदंष्ट्राकोटिविलेखोत्खातमुस्तादलसुगन्धयः करिमहिषयूथावगाढपल्वलाः कलभचीत्कारपूरितदशदिशो मृगतृष्णाभिरारचिंतसरस्तरङ्गमालाभिरिव विप्रलब्धमुग्धहरिणव्रजाः शुचिशुक्राभिख्ययोर्मासयोः॥ तथा वर्षासु-सौदामिनीवलयविद्योतितोदराभिनवजलधरपटलस्थगितमम्बरमारचितपाकशासनचापलेखमासारधाराप्रपातशमितधूलिजालं च विश्वम्भरामण्डलम् , अङ्गसुखाः समीराः कदम्बकेतकरजःपरिमलसुरभयः, स्फुरदिन्द्रगोपकप्रकरशोभिता शाबलवती भूमिः, कूलङ्कष जलाः सरितः, विकासिकुटजप्रसनकन्दलीशिलीन्ध्रभूषिताः पर्वतोपवर्षावर्णनम् त्यकाः, पयोदनादाकणनोपजाततीव्रोत्कण्ठाः परिमुषितमनीषा इव प्रवा सिनः, चातकशिखण्डिमण्डलमण्डूकध्वनिविषमविषवेगमोहिताः पथिक१ 'कश्मीरगुरु ' इति क-ख-पाठः। २' केलगिरी' इति क-ख-पाठः। ३ ' परिधृतः ' इति ग-पाठः । 'अरणान्यः 'इति ग-पाठः । ५'चितस्तरङ्ग' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy