________________
सूरिकृतटीका ]
सम्बन्धकारिकाः रात्मा द्वादशानुप्रेक्षास्थिरीकृताध्यवसायः संवृताश्रवत्वादनमिनवकर्मागमः तपःसंयमादिमिश्च पूर्वोपात्तक्षयशुद्धाशयो मोहादिमलप्रक्षयादवाप्तकेवलपरमैश्वर्यः फलबन्धनशेषचतुष्प्रकृतिक्षये कर्मक्लेशाभावावस्थामामोतीति, पुनरपि विस्तरतः शास्त्रे वक्ष्यामः । अत्र च जन्मकर्मक्लेशप्रयाभावेऽप्यष्टकर्मक्लेशाभाव इत्युक्तं, ते ह्यवश्यं जन्मकारणं, जन्मत्वेतत्कारणमपीत्युपदिष्टं, अतस्तदभावे प्रागेव जन्माभाव इत्यभिप्रायः। क्लेशानां च कर्मभेदत्वेऽपि पृथग्रहणं प्राधान्यार्थम्, एतद्भावाभावे हि बन्धमोक्षौ, वक्ष्यते-"सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते । स बन्धः" (अ०८,सू०२-३)। मोहादिक्षयात् केवलं ततश्च मोक्ष इति । एवं तर्हि कर्मग्रहणं माभूत् । नैवं शङ्कयम् । व्यवहार एव न प्रवर्तते, प्रधाना हि कर्मसंज्ञा वक्ष्यमाणा, तदेकदेशाश्च क्लेशा इति ज्ञापितं भवति । एष परमार्थः । एष इति वक्ष्यमाणविस्तरमपि समासतोऽवधार्य प्रदर्शयति, बहुविचित्रग्रन्थोपहितोऽप्येतावानेवैष परमार्थो यदुत कर्मक्लेशाभावो नोनो नाभ्यधिको वेति । परम उत्कृष्टो ज्यायान्, अर्थः प्रयोजनं फलं परमार्थः, अत्यन्तशुद्धत्वात् पूज्यमानो वार्थः, दर्शनादिलाभफलं मोक्ष इत्याद्वितीयार्थः ॥२॥ यदि पुनरेकभवेन परमार्थः शक्यतेऽवगन्तुं न च क्लेशप्रहाणं, ततः क उपाय इत्याह
परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवद्यं यथा कर्म ॥३॥ आर्या
व्या०-परमार्थालाभे वेत्यादि । परमार्थ उक्तवक्ष्यमाणनिर्वचनः, तं यदा कालसंहननपरिहाणेर्न लभते तदा, दोपेषु, दूषयन्त्याशयमिति दोषाः कषायास्तेषामेव गौणपर्यायज्ञापनार्थ प्रयोजनार्थं च दोषा इत्याह-आरम्भकस्वभावेषु । आरम्भयतीत्यारम्भकः अशुभे प्रवर्तयतीत्यर्थः, आरम्भकः स्वभावो येषां ते इमे आरम्भकस्वभावाः । नह्यदुष्टाशयोऽशुमे प्रवर्तते इति प्रतीतम्, क्लेशास्तु अप्रवर्तमानमपि प्रवर्तयन्तीति । एवं सोव्यापाराणां विशेषसंज्ञा गौणी दोषा इति, दोषेष्विति सत्सप्तमी। आरम्भकस्वभावेषु सत्सु किं कर्तव्यम् ? तथा प्रवर्तितव्यमिति वर्तते, तथा किं भवतीत्याह-कुशलानुबन्धमेवेत्यादि। कुशलं क्षेममनपायं शिवमित्यर्थः । तच्च कुशलकारणत्वात् तदनुबध्नाति, तस्मिन् वाऽनुबन्धोऽस्येति, कुशलप्रयोजनमित्यर्थः । एवावधारणे, कुशलानुबन्धमेव, नाकुशलानुबन्धम्, न वा कुशलाकुशलानुबन्धम् । स्यादित्यधीष्टे लिङ्, एवमधीच्छति कुशलं मे स्यादिति । किं तत् कुशलानुबन्धमिति वक्ष्यमाणमपि समासेनाह-अनवद्यं नावद्यमनवद्यमगडं कर्म कुशलानुबन्धं भवतीत्यर्थः । यथेति तथापेक्षः, तथा प्रवर्तितव्यम् यथा कुशलानुबन्धं कर्म भवति, कर्मेति विशेष्यं तच्च व्याख्यातमिति तृतीयार्यार्थः ॥३॥
१'नो जनोऽभ्यधिकश्चेति ' इति क-पाठः । २ 'संहननपरिहाणेन परिहाणेन ' इति क-पाठः । ३ 'प्रवर्तमानमपि ' इति विशेषः क-पुस्तके। ४ 'सव्यापाराणां ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org