________________
३२२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ सतीति ॥ अपरे त्वाहुः-किलाचार्येण सूत्रमेवमधीतम्-नित्यावस्थितान्यरूपीणीति, अत्र च बहुव्रीहिणोक्तवान्मत्वर्थीयानुपपत्तिरिति । अत्रोच्यते-कचिद् बहुव्रीहिं बाधित्वा तत्पुरुषवृत्ती मत्वर्थीयो भवति, तद्यथा-"इधार्योः शत्रकृच्छ्रिणि" ( पा० अ० ३, पा० २, सू० १३०), तथा अनरवन्ति चक्राणि, सर्वधनादित्वाद् वा ॥ अपरे ब्रुवते-भवतु मत्वर्थीयोऽत्राहः, स च मतुरेव रसादिपाठान्नत्विनिरिति, उक्तं तत्रान्यतरस्यांग्रहणं समुच्चयार्थमित्यदोषः॥ भाष्यमधुनाऽऽश्रियते
भा०-एतानि द्रव्याणि नित्यानि भवन्ति । तद्भावाव्ययं नित्यम्' (अ०५, स०३०) इति च वक्ष्यते । अवस्थितानि च, न हि कदाचित् पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ अरूपाणि च, नैषां रूपमस्तीति । रूपं मूर्तिः, मूल्याच स्पर्शादय इति ॥३॥
टी-एतानि द्रव्याणि नित्यानीत्यादि भाष्यम् । एतानि-अनन्तराविष्कृतानि पश्चापि धर्मादीनि, द्रव्याणीति द्रव्यास्तिकनयाभिप्रायेण, न तु पर्यायसमाश्रयणात्, द्रव्यास्तिको हि धौव्यमेवेच्छति,नोत्पादविनाशौ,अतः तदभिप्रायेणैषामाचार्यः शास्ति नित्यताम्,अन्यथा द्रव्यास्तिकनयनिरपेक्षनिरूपणायामेकान्तवादः स्यात्, स च बहुविधदोषाघातत्वात् सामीक्षिकाभिप्रा. यवदसमञ्जसः स्यात् ॥ ननु चैवमेकनयनिरूपणा न जैनेन्द्रदर्शनप्रतिपूरणायालम्, सत्यमेतत, किन्तु द्रव्यास्तिकपर्यायास्तिकयोः प्रधानगुणभावविवक्षावशाद् वस्तुतत्त्वमुपनीयते ज्ञातपु. त्रीयैः, अन्यथा हीत्थं वस्तुप्रज्ञापनाऽतिदुष्करा स्यात्, अतः प्रज्ञापनेयमभिमांशस्य वस्तुनो नरसिंहस्येव नरकेसरिशब्दभेदेन । तत्र हि द्रव्यास्तिकस्य प्राधान्यमाश्रित्येतरस्य च गुणभावं नित्यता प्रज्ञाप्यते, यथा चैतानि नयद्वयोपसंगृहीतानि तथा प्रथमसूत्रेऽभिहितमभिधास्यते च त्रिसूत्र्यामिति । तमेव च ध्रौव्यांशं द्रव्यास्तिकनयप्रज्ञाप्यमादर्शयितुमाह-नित्यानि भवन्ति 'नेधुंवे त्य' (सिद्ध० अ० ६, पा० ३, सू० १७ ) इति नित्यानि ध्रुवाणि, नोत्पादविनाशवन्तीतियावत, भवन्तीत्यनेन सकलकालाविकारिणी सत्ताऽऽख्यायते धर्मादीनाम, तच्च नित्यलक्षणं वक्ष्यमाणमुद्दट्टयति-तद्भावाव्ययं नित्यमिति । यत् सतो भावात न व्येति न व्येष्यति तन्नित्यमिति भवतीति भावः । योऽसौ भवति स कर्ता द्रव्यम्, सब तस्मात स्वरूपान विगमेन युज्यते योक्ष्यते वाऽतो निस्य उच्यते, न कदाचित् सदूपता परित्यक्ष्यतीत्यर्थः। अधुनाऽवस्थितशब्दार्थ निरूपयति नित्यावस्थितयोरभेदभ्रान्तिमपनयन-मा भूत सङ्करोऽनयोः, अन्यन्नित्यलक्षणमन्यञ्चावस्थितलक्षणमिति, अवस्थितानि च, नहि कदाचित् पश्चत्वं भूतार्थत्वं च व्यभिचरन्ति । नित्यत्वानुज्ञापेक्षया चशब्दोपादानम्, अवस्थितानि भवन्ति धर्मादीनि द्रव्याणि, तचावस्थानमेषां वाक्यान्तरेण निरूप्यते-न कदाचित् पञ्चत्वं व्यभिचरन्ति, तद्भावाव्ययतायां सत्यामियत्तेषां निर्धार्यतेऽवस्थितशब्दोपादानात्,
१ इन्द्रार्योः शक्रकृच्छ्रीणि' इति ग-पाठः। २ 'भरूपाणि' इति प-पाठः, 'भल्पीणि' इति तुस-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org