________________
३१९
सूत्र २]
स्वोपज्ञभाष्य टीकालङ्कृतम् वावयवैः सावयवो द्रव्यावयवैर्निरवयव इति।आगमश्च-"कइविहे गं भंते ! भावपरमाणू पण्णत्ते ? गोयमा ! चउविहे भावपरमाणू पण्णत्ते, तंजहा-वण्णमंते रसमंते गंधमन्ते फासमन्ते इति"। (भग० मू० ६७०) मतुविह संसर्गे द्रव्यपरमाण्वपेक्षो वा तस्माद् वर्णाद्यवयवैर्बहुत्वं द्रव्याणोः। यच्च तत तथा प्रयतते संयुज्यते वियुज्यते श्वेत इत्यादिकारणं तत् परमाणुद्रव्यम्, अत्राप्यापत्तिः स्पष्टा। तथा द्वितीयं कायग्रहणे प्रयोजनमद्धासमयः कायो न भवति, अद्धा चासौ समयश्चाद्धासमयः, स चार्धतृतीयद्वीपान्तर्वर्ती समय एकः परमसूक्ष्मो निर्विभागस्तस्य न कायता, समुदायश्च कायशब्दवाच्य इति, वक्ष्यत्यस्य द्रव्यप्रस्तावे द्रव्यतामेकीयमतानुसारिणीम्, द्रव्यं च प्रदेशप्रचितमवयवप्रचितं वा स्याद आशङ्कमानो न्यषेधीत् कायग्रहणात् कायतामद्धासमयस्य । एवं तर्हि कायप्रतिषेधादनुत्पादविनाशः स्यात् समयः, तदभावाच्च ध्रौव्यमप्यपेयात्, ततश्च मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् सकलमिदमनालम्बनं समयव्यावर्णनं स्यादिति । उच्यते-नायं नियमो यत्कायशब्देनाक्षिप्यते तदेवोत्पाद विनाशवदितरन, कथं तर्हि प्रतिपत्तव्यमेवम् ? ननु यत्र कायशब्द उपात्तस्तत्रायमर्थोऽस्य यदुतोत्पादविनाशौ खरससिद्धावेव च कायशब्देन प्रकाश्येते, न पुनरभूतावपि शब्दसामर्थ्यात् सन्निधानं कल्पयतः, यत्र तु कायग्रहणं नास्ति तत्र स्वरससिद्धावेवोत्पादविनाशौ तत्सहचरितत्वाच्च धौव्यमपीत्येतत् समस्तमेव द्रव्यप्रस्तावे भावयिष्यामः । कारणसमुच्चयार्थश्वशब्दो भाष्ये प्रतिपत्तव्यः। प्रशस्ताभिधानाधर्मग्रहणमादौ लोकव्यवस्थाहेतुत्वाद् विपरीतत्वादेकद्रव्यत्वा वाऽधर्मग्रहणमनन्तरं, तत्परिच्छेद्यमाकाशं लोकत्वात् तदनन्तरममूर्तसाधर्म्याच, तदवगाढत्वात् तदनन्तरं पुद्रला इति विशिष्टकमसनिवेशप्रयोजनमेतदेवमवसेयमिति ॥१॥ धर्मादीनां द्रन्यगुणपर्यायत्वेनानुपदेशे सति सन्देहः स्यात्, अतः सन्देहव्यावृत्त्यर्थमिदमुच्यते
सूत्रम्-द्रव्याणि जीवाश्च ॥ ५-२॥ टी०-उपरिष्टाद् वक्ष्यते लक्षणं 'गुणपर्यायवद् द्रव्यम्' (अ० ५, सू० ३७) इति । तत्र द्रव्याणीति सामान्यसंज्ञा, धर्मादिका च विशेषसंज्ञा, अतः सामान्यविशेषसंज्ञाभाजि धर्मादीनि, द्रव्यसंज्ञा च द्रव्यत्वनिमित्ता द्रव्यास्तिकनयाभिप्रायेण जातिश्च शब्दार्थः, तब द्रव्यत्वं
. परमार्थविचारणायां व्यतिरिक्ताव्यतिरिक्तपक्षावलम्बि, नैकान्तेनान्यूद्धर्माद्रव्यशम्दार्थः दिभ्यो नान्यदिति पुरो वक्ष्यते त्रिसूच्याम्, अत एतानि धमोदीनि मग्राण्डकरसवत् संमूर्च्छितसर्वभेदप्रभेदबीजानि देशकालक्रमव्यङ्ग्यभेदसमरसावस्थैकरूपाणि द्रव्याणि गुणपर्यायकलापपरिणामयोनित्वाद् भेदप्रत्यवमर्शनाभिन्नान्यपि मिन्नानीव भासन्ते, "द्रव्यं च भव्ये" (पा० अ०५, पा०३, सू० १०४ ) इति वचनाद् भावे कर्तरि च निपात्यते । इह तु भावे, द्रव्यं भव्यं भवनमिति, गुणाः पर्यायाश्च भवनसमवस्थानमात्रका
१ कतिविधो भदन्त ! भावपरमाणुः प्रज्ञप्तः ? गौतम ! चतुर्विधः भावपरमाणुः प्रज्ञप्तः । तद्यथा-वर्णवान् , रसबाम् , गन्धवाम् , स्पर्शवान् इति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org