________________
सूत्रं १ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३१७
पतित इति ? । उच्यते- ज्ञानशब्दयोर्निबन्धमुभयमर्थविदः प्रचक्षते स्वभावरूपमापत्तिरूपं च, तत्र प्रत्यस्तमितनिरवशेषविशेषणः स्वभावरूपः सर्वदाऽप्यविकार्यो येनांशेन धौव्यपदव्यपदेशमश्नुतेऽसौ, यथा चैतन्यमात्मनोऽकृत्रिमम्, मूर्तत्वं वा पुद्गलद्रव्यस्य, धर्मादीनाममूर्तत्वं सकललोकव्यापिता गत्याद्युपग्रहादिलक्षणानि च ध्रुवाण्येतानि । आपादनमापत्तिः - आविर्भावतिरोभाव, वस्तुनः उत्पादविनाशावितियावत्, तत्र मृन्मूर्तिरूपादिस्वभावमजहद् वस्तु घटकपालशकलाकारमास्कन्दन्नु) दु१)त्पद्यत इति व्यपदिश्यते, यथा हि महतः सरसस्तरङ्गमालाः टुमारुतवेगायासिताः प्रादुष्यन्ति जलद्रव्यात्मिकाश्च ताः, एवं घटादयोऽपीति । तथा विनाशोऽपि घटाद्याकारप्रलयः कारणापेक्षः स्थूलतरङ्गसन्ततीनामिव स्तिमितवारितयाऽवस्थानमुज्झितसमीरणप्रबल वेग सम्पर्काणामित्येवमुत्पादप्रलय धौव्यलक्षणः प्रवचनेऽस्त्यर्थः प्रासिधत् । तत्रैतत्त्रितयदिदर्शयिषयाऽऽचार्येणास्तिशब्दो ऽव्ययसंज्ञः सकलधर्मादिद्रव्यधौन्यप्रतिपादनायाकारि, काय शब्दस्तु सूत्रपात आपत्यर्थः । एवं तर्हि सूत्र एवोपादानमस्तिशब्दस्य न्याय्यम्, विशिष्टार्थप्रतिपत्त्यर्थत्वात्, कायशब्दवत्, कायशब्दो वा नोपादेयस्तत एव हेतोरस्तिशब्दवदिति । उच्यते-अन्यतरोपादाने यत्रान्यतरसम्प्रत्ययो भवतीत्यभिप्रायः सूरेः, संसर्गादीनि कारणानि शब्दस्यान्यस्य सन्निधाने भवन्ति व्यवच्छेदे चं
“संसर्गो विप्रयोगश्थ, साहचर्य विरोधिता ।
अर्थः प्रकरणं लिङ्ग, शब्दस्यान्यस्य सन्निधिः || सामर्थ्य मौचिती देशः, कालो व्यक्तिः स्वरादयः । शब्दस्यार्थव्यवच्छेदे, विशेषस्मृतिहेतवः ॥ " ( श्रीहेमचन्द्रकृत - काव्यानुशासनवृत्तौ पृ० ३९ )
एषामनन्तरोक्तानां मध्ये संसर्गे गृह्यते, अत्र संसर्गमङ्गीकृत्य धौव्यार्थप्रतिपत्तयेऽस्ति - शब्दप्रक्षेपः, उत्पादविनाशौ हि धौव्याविनाभूतौ संसृष्टौ धौव्येण, अन्यथा हि धौव्यात्मकताभावेऽन्वयिशून्यत्वादसन्निहित भवितृकत्वादुत्पादविनाशौ निर्बीजौ न स्याताम् । नापि ध्रुवता आविर्भावतिरोभावरहिता, ततस्त्र्यात्मकं वस्तु जैनेन्द्राणां बुद्धिव्यवस्थापितप्रविभागं प्रज्ञापनोपायत्वान्नरसिंहादिवत्, अतः कायशब्देनापत्तिरभिधित्सिताऽस्तिशब्देन धौव्यमिति । कथं पुनः कायग्रहणादापत्तिरुद्भवप्रलयात्मिका प्रतीयत इति १ । उच्यते - प्रचीयमानाकारता हि कायः समुदायः, स च विभागे सति भवति, विभक्ता धर्मादिद्रव्यप्रदेशाः, न
१ कायशब्दस्तावत् निरुपचारेण कायादेरुपचारेण चास्तिकायस्य वाचकः, अत्र धर्मादिना संसर्गादस्तिकायार्थस्य ग्रहः, यद्वा धर्मादिशब्दा एव धर्मास्तिकायाद्यर्थाः, पश्चमांगे तदनेकार्थेषु धर्म इत्यादेर्निर्देशात्, अजीवतायाः कायतायाश्च व्यक्तये अजीव काया इति, आद्येन जीवास्तिकायस्य परेण कालस्य च व्यवच्छेदः ।
२ 'तत्रोपात्त' इति क-पाठः । ३ 'वा' इति क-पाठः ।
४ पुगलपरमाणूनामप्यस्त्येव विभागः, पूरणगलनधर्मत्वात्, नेत्यादि तु विशिष्टविभागताख्यापनाय ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org