SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीपरमात्मने नमः | श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धार प्रन्थाङ्के श्रीउमास्वातिवाचकवर्यविरचितम् तत्त्वार्थाधिगमसूत्रम् स्वोपज्ञाः सम्बन्धकारिकाः ( श्रीदेव गुप्त सूरि-श्रीसिद्धसेनगणिप्रणीत टीकाद्वययुताः ) सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥ १ ॥ आर्या श्रीदेव गुप्तसूरिकृताटीका - Jain Education International वीरं प्रणम्य सर्वज्ञं, तत्त्वार्थस्य विधीयते । टीका संक्षेपतः स्पष्टा, मन्दबुद्धि विबोधिनी || अनुष्टुप् व्याख्या - सम्यगत्प्रवचनमधिगम्य काल संहनन श्रद्धापुरादेः परिहाणिमवलोक्य सवानुकम्पया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह -- सम्यग्दर्शन शुद्धं यो ज्ञानं विरतिमेव चामोति । अत्र सम्यग्दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ? यदि तावत् सम्यग्दर्शनेन शुद्धमिति करोति करणे तृतीया, परश्वादीनामिव प्राङ् निर्वृतिर्वक्तव्या; उत कर्तरि, तदा दर्शनज्ञानयोरभेदाद् आत्मनो, य आप्नोतीत्ययुक्तम् । अथ सम्यग्दर्शनायेति तादयें चतुर्थी, दार्विव यूपाय, प्रागेव दर्शनात् शुद्धं ज्ञानम्, अवाप्तज्ञानस्य च केवलिन इव किं दर्शनेन ? उत सम्यग्दर्शनात् हेतौ पञ्चमी, स्वयंसम्बुद्धादिषु विरुध्यते, तेषां हि झगित्येव ज्ञानं न हेतुक्रममपेक्षते । अथ सम्यग्दर्शने शुद्धमिति निमित्तसप्तमी, चतुर्थीपक्षदोषः । तस्माद् वक्तव्योऽत्र समाधिः । यथेच्छसि तथाऽस्तु । ननूक्तं दोषभूयस्त्वम् । नैते दोषाः । करणे तावद् १ आर्या - लक्षणम् -- यस्याः पादे प्रथमे, द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थके पञ्चदश साऽऽर्या ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy