________________
२७६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ द्रष्टव्याः, अमा सहाथै, सह भवन्तीत्यमात्याः-कार्यालोचनसमर्थाः पिता गुरुरुपाध्यायो महत्तरश्च सर्व एते पूजनीयास्तद्वत् तेऽपि सामानिका इति। त्रयस्त्रिंशदेव त्रायस्त्रिंशाः स्वार्थेऽण 'तद्धिताः' (पा० अ०४,पा० १,सू० ७६) इति बहुवचननिर्देशादनुक्ततद्वितोत्पत्तिवृष्टशब्दान्वाख्यानाच, एते मन्त्रिपुरोहितस्थानीयाः,मन्त्रिणः-राज्यचिन्ताभराधिरूढमानसाः, पुरोहिताः-शान्तिकपौष्टिकाभिचारिककर्मकारिणः। पारिषद्या वयस्यस्थानीयाः,परिषदि साधवः पारिषद्याः मित्रसदृशाः। आत्मरक्षाः शिरोरक्षस्थानीयाः उद्यतप्रहरणा रौद्राः पृष्ठतोवस्थायिनः, अपायाभावात् कल्पनावैयर्थ्यमिति चेत् तद् न स्थितिमात्रपरिपालनात् प्रीतिप्रकर्षहेतुत्वाच। लोकपाला आरक्षकार्थचरस्थानीयाः स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराश्चौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः। अनीकाधिपतयो दण्डनायकस्थानीयाः दण्डनायको विक्षेपाधिपतिः सेनापतिरितियावत्, अनीकान्यनीकान्येव सैन्यानीत्यर्थः, हयगजरथपदातिवाहनस्वरूपाणि प्रतिपत्तव्यानि, सूत्रे चानीकान्येवोपात्तानि सरिणा, नानीकाधिपतयः, भाष्ये पुनरुपन्यस्तास्तदेतदेकत्वमेवानीकानीकाधिपत्योः परिचिन्त्य विवृतमेवं भाष्यकारेण, अन्यथा वा दशसङ्ख्या भिद्येत । प्रकीर्णकाः पौरजनपदस्थानीयाः प्रकृतिसदृशा इत्यर्थः। आभियोग्या दासस्थानीयाः आभिमुख्येन योगोऽभियोगः-परारिराधयिषयाभिमुखीकतकर्मविशेषः, अभियोगकर्म आभियोग्यं तद् येषां विद्यते ते भवन्त्याभियोग्या:-कर्मकरस्थानीयाः । अन्तस्थस्थानीयाः किल्विषिका इति अन्तस्थाः चण्डालादयस्तद्वत् किल्बिपिका देवानां मध्य इति ॥४॥
चतुर्बपि निकायेषु दशविधेन्द्रादिभेदप्रसक्ताविदमपोद्यते । सूत्रम्-त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ४-५॥
भा०-व्यन्तरज्योतिष्काश्चाष्टविधा भवन्ति, बायस्त्रिंशलोकपालवर्जा इति॥५॥
टी०-न यथासङ्ख्यमत्र प्रतिपत्तव्यम्, अनन्तरसूत्रे त्वेकशो ग्रहणाद्, अतो व्यन्तराणां त्रायस्त्रिंशा लोकपालाश्च न सम्भवन्ति ज्योतिष्काणां चेत्यतोऽष्टप्रकारा एव ॥५॥
अथ य एते विकल्पा दशादयश्चतुषु निकायेषूक्तास्तत्र किमेकैक इन्द्र उतान्यथेत्यत आह-पूर्वयोर्दीन्द्राः । अथवा निकायपारमैश्वर्याचतुरिन्द्रप्रसङ्गे सतीदमुच्यते
सूत्रम्-पूर्वयोर्दीन्द्राः ॥ ४-६॥ भा०-पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ बाविन्द्रौ भवतः। तद्यथा-भवनवासिषु तावद् द्वावसुरकुमाराणां इन्द्रौ भवतः-चमरो १' चेत् न' इति क-पाठः। २ 'मापाद्यते' इति क-पाठः। ३ 'शल्लोक०' इति ग-पाठः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org