________________
२७४
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४ देवः पश्चेन्द्रियतिर्यग्योनिजो मनुष्यो वा देवायुषि बद्धेऽनन्तरागामिजन्मनि यो देवतयोत्पत्स्यते स त्वागामिनीवृत्तिमाश्रित्य देव इति प्रज्ञायते तद्दलिकत्वाद् दारुच्छेदप्रज्ञापनवत्,नरदेवाः-चक्रवर्तिनो रत्नचतुर्दशकाधिपतयः शेषमनुजोत्कृष्टत्वात्,धर्मदेवाः-साधवो यथोक्तप्रवचनार्थानुष्ठा यिनः सद्धर्मप्रधानव्यवहारत्वात्, देवाधिदेवाः-तीर्थकरनामकर्मोदयवर्तिनः कृतार्थाः सदुपदेशेन भव्यसत्त्वानामनुग्राहकत्वाच्छेषदेवपूज्यत्वाच्च, भावदेवाः पुनः भवनवनचरज्योतिष्कवैमानिका देवगतिनामकर्मोदयलक्षिताः देवायुषो वेदकाः क्रीडाद्यतिशयवर्तित्वादिति, एवं पञ्चभेदेषु सत्सु देवेषु किमर्थ चतुर्निकाया इति ? उच्यते-भावदेवानामेवात्र विवक्षितत्वाच. तुनिकायत्वम्, तथा च पातनिकाग्रन्थे सर्वत्र भावप्रस्तावः मूरिणा दर्शितः । अपि चाद्याश्चत्वारो मनुष्या एव कश्चिदतिशयमङ्गीकृत्य देवा इति यथा तथा प्रतिपादितमेव, तस्माद् भावदेवाश्चतुर्निकाया इति युक्तमुक्तं आचार्येण, ऊर्ध्वलोकस्वरूपाख्यानप्रस्तावे च तदधिकारादिति ॥१॥
अथ कथमेतत् प्रतिपत्तव्यं देवाश्चतुर्निकायाः सन्तीति ? उच्यते तदेकदेशनिकायप्रत्यक्षत्वात् तत्सद्भावावगमकोऽयमनुमानभूत उपलभ्यते
सूत्रम्-तृतीयः पीतलेश्यः॥४-२॥ भा०-तेषां चतुर्णी देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ ? ज्योतिष्क इति ॥२॥
टी०-तृतीयः पीतलेश्यः, नहि प्रत्यक्षमपह्नोतुं शक्यम्, प्रमाणज्येष्ठत्वात्, चन्द्रादित्यादिविमानानि हि प्रत्यक्षप्रमाणसमधिगम्यानि, तानि च कदाचित् केनचिदधिष्ठितान्यपि को, निवासत्वान्नगरपामगेहादिवत्, ये च तेषामधिष्ठातारस्ते ज्योतिष्का देवा इति प्रतीयताम्, तच्छेषास्तु तदेकदेशदृष्टेः सेनावनादिवत् प्रतिपत्तव्या इति । तृतीय इति क्रमसनिवेशमार्षमङ्गीकृत्येदमुच्यते, अथवा वक्ष्यमाणमिहत्यमेवाभिसन्धाय-ज्योतिष्कदेवनिकायस्तृतीय इत्युक्तम् । पीता लेश्या यस्यासौ पीतलेश्यः, इह च द्रव्यलेश्या-शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति। तेषां चतुर्णामित्यादि भाष्यम् । तेषां-पूर्वसूत्रोपन्यस्तानां चतुःसङ्ख्यानियतानां देवसमूहानां तृतीयो देवनिकायः पीतलेश्य एव भवतीति, सामर्थ्यादवधारणोपपत्तेरेवशब्दो नोपात्तः, साक्षाद् दर्शितश्च सामर्थ्याल्लभ्यो विवृण्वतेति । कश्चासौ तृतीय इत्यविज्ञातक्रमसन्निवेशस्य नामग्राहमाचष्टेज्योतिष्क इति ॥२॥
ते च निकाया यथासङ्ख्यं भवनपतिव्यन्तरज्योतिष्कवैमानिकाख्याः । सूत्रम्--दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः॥ ४-३॥ टी-खनिकायापान्तरालभेदनियमः क्रियतेऽमुना योगेन, अमी च दशादयो भेद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org