________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ टी०-देवाश्चतुर्निकाया इत्यादि भाष्यम् । दीव्यन्तीति देवाः, स्वच्छन्दचारित्वात्,
अनवरतक्रीडासक्तचेतसःक्षुत्पिपासादिभिनात्यन्तमाघ्राता इति भावार्थः। देवशब्दस्य व्युत्पत्त्यर्थः स्व.व्यु द्योतन्ते वा भास्वरशरीरत्वादस्थिमांसासृकप्रवन्धरहितत्वात् सर्वाङ्गोपाङ्ग
सुन्दरत्वाच्च देवाः । अथवा विना विद्यामन्त्राञ्जनादिभिः पूर्वकृततपोsपेक्षजन्मलाभसमनन्तरमेवाकाशगतिभाजो देवाः, साह्यतिशयवती गतिस्तेषामनालम्बाकाशचारिणाम, यथोक्तमागमे ( भग० सू०५८४)-कैमहालएणं भंते ! लोए पन्नत्ते ? गोयमा! अयं चणं जम्बुद्दीवे दीवे सव्वदीवसमुदाणं मज्झे खुड्डुलए पण्णत्ते । तेणं कालेणं तेणं समएणं छद्देवा महिड्डिया जंबुद्दीवे दीवे मन्दरपव्वए मंदरचूलियं सव्वओ समन्ता संपरिक्खिवित्ताणं चिढेजा, अहे णं चत्तारिदिसाकुमारीमहयरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स उसुवि दारेसु बहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहियाभिमुहे पवाहेज्ज । पभू णं गोयमा ! ततो एगमेगे देवे ते चत्तारिवि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! उकिटाए जाव देवगतीए एगे पुरत्थाभिमुहे पयाते, एवं छस्सुवि दिसासु पयाता । तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाते, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवन्ति, नो चेव णं ते देवा लोयतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स अहिमिंजे पहीणा भवन्ति, नो चेव णं ते लोअंतं संपाउणंति, तए णं तस्स दारगस्स सत्तमेऽवि कुलवंसे पहीणे भवति, नो चेव णं ते लोयंतं संपाउणंति, तते णं तस्स दारगस्स नामगोत्तेऽवि पहीणे भवति, नो चेव णं संपाउणंति, तेसि णं भंते! देवाणं किं गए बहुए अगए बहुए ? गोयमा ! गए बहुए, नो अगए बहुए, गतातो से अगते असंखिज्जतिभागे, अगतातो से गए असह्वेज्जगुणे, एवं महालए गोयमा! लोए पण्णत्ते"।तथा विमानमहत्त्वं प्रज्ञापना
१ कियन्महान् भदन्त ! लोकः प्रज्ञप्तः ? गौतम । अयं च जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः प्रज्ञप्तः । तस्मिन् काले तस्मिन् समये षटू देवा महर्द्धिका जम्बूद्वीपे द्वीपे मन्दरपर्वते मन्दरचूलिकां सर्वतः समन्तात् संपरिक्षिप्य तिष्ठेयुः, अथ चतस्रः दिक्कुमारीमहत्तरिकाः चतुरो बलिपिण्डान् गृहीत्वा जम्बूद्वीपस्य द्वीपस्य चतुर्वपि द्वारेषु पहिरभिमुख्यः स्थित्वा तान् चतुरो बलिपिण्डान् युगपद् बहिरभिमुखान् प्रवाहयेयुः। प्रभुर्गौतम! ततः एकैकः देवः तान् चतुरोऽपि बलिपिण्डान् धरणीतलमसंप्राप्तान् क्षिप्रमेव प्रतिसंहर्तुम् । ते गौतम ! उत्कृष्टया यावद् देवगत्या एको देवः पूर्वाभिमुखः प्रयातः, एवं षट्स्वपि दिक्षु प्रयाताः, तस्मिन् काले तस्मिन् समये वर्षसहलायुष्को दारकः प्रजातः। ततः तस्य दारकस्य मातापितरौ प्रहीणौ भवतः, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य आयुः प्रहीणं भवति, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य अस्थिमज्जाः प्रहीणा भवन्ति, नैव ते ( देवा) लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य सप्तमोऽपि कुलवंशः प्रहीणो भवति, नैव ते लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य नामगोत्रमपि प्रहीणं भवति, नैव संप्राप्नुवन्ति, तेषां भदन्त ! देवानां किं गतं बहुकं अगतं बहुकं ? गौतम ! गतं बहुकं, न अगतं बहुकं, गतात् तद् अगतं असंख्येयभागे, अगतात् तद् गतं असंख्येयगुणं, एवंमहान् गौतम ! लोकः प्रज्ञप्तः।
२ 'बलदेवा' इति क-पाठः । ३ 'वेत्ताणं ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org