________________
२६३
सूत्र १३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् संहरणतोऽपि न सन्ति मनुष्याः, तत्र संहरणं नाम वैरायनुबन्धात् केनचिदेवविद्याधरादिना इहत्यमनुष्यस्तत्रोत्क्षिप्य नीयेतायमत्रोर्ध्वशोषं शुष्यतु म्रियतां वाप्यकृतप्रतीकारः क्षिप्रमेवं वैरादिनिर्यातनाथ, संहरणममून विहाय क्रियते
"समणी अवगतवेदं, परिहारपुलागमप्पमत्तं च ।।
चोदसपुर्दिव आहा-रयं च णवि कोइ संहरइ ॥" आर्या तस्मादपि संहरणतो न मनुष्यास्तत्परत इति, अवश्यं हि मनुष्येण मर्तव्यमन्तर्मानुषो. त्तरनगस्येति । तथा चारणविद्याधरर्द्धिप्राप्ता अपि मनुष्यास्तमुल्लङ्घ्य गताः सन्तः परतो न म्रियन्ते इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तराद् बहिनिषिध्यते, तपोविशेषानुष्ठानाज्जङ्घाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्चायमावश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतः, न तु प्राणान् परित्यजन्ति तत्रैवेति । एवंविधातिशयप्राप्ता अपि तत्र नो नियन्ते, किमुत निरतिशयमनुष्या इति दर्शयतिमालपोतराभिधाने भा०-अन्यत्र समुद्घातोपपाताभ्यामत एव च मानुषोत्तर
कारणम् इत्युच्यते । .टी.-अन्यत्र समुद्घातोपपाताभ्यामित्यपोद्यते मारणान्तिकसमुद्धातेन समुपहतः कश्चिदर्घतृतीयद्वीपान्तर्वर्ती बहिर्वर्तिद्वीपसमुद्रेषत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चान्प्रियते तत्र व्यवस्थित इति । तथोपपातमङ्गीकृत्य जन्माभिसम्बध्यते बहिर्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यामन्तरे चोत्पत्स्यते वक्रगत्या, तस्य तन्मनुष्यायुर्वक्रकाले विपच्यते, तदैव चासौ मनुष्यो जातस्तदुदयवर्तित्वात् । तथा चागमः-" मंणुस्से णं भंते ! मणुस्सेसु उववज्जइ अमणुस्से मणुस्सेसु उववज्जइ ? गोयमा! मणुस्से २ सु उववज्जइ, नो अमणुस्से मणुस्सेसु उववज्जइ ॥" एवं समुद्धातोपपातौ विरहय्य नान्येन प्रकारेण बहिमोनुषोत्तरधरणीधरात् मरणं मनुष्याणां जन्म वा सम्भाव्यते इति । ये त्वेतद् भाष्यं गमनप्रतिषेधद्वारेण चारणविद्याधरर्द्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनां आगमे गमनाभ्यनुज्ञानाद, बहिर्जन्ममरणे न सम्भाव्येते इत्यवधीकृत्येदमुच्यते-अत एव मानुषोत्तर इति ।
१ श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च । चतुर्दशपूर्विणमाहारकं च नैव कोऽपि संहरति ॥-भग० श० २५, उ० ६ वृत्ती २ 'मित्यापाद्यते ' इति क-पाठः।
३ मनुष्यो भदन्त ! मनुष्येषु उत्पद्यते, अमनुष्यो मनुष्येषु उत्पद्यते ? गौतम ! मनुष्यो मनुष्येषु अमनुष्यो मनुष्येषु उत्पद्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org