________________
२४८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ भा०-उक्तं ह्येतद् । भूमयः सप्ताधोऽधः पृथुतराश्छनातिच्छत्रसंस्थिताः तिर्यग्लोक- (अ०३, सू०१) इति ता यथोक्ताः। तिर्यग्लोको झल्लाकृतिः।
प्रस्तावना ऊर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रसिद्धयर्थमिदमाकृतिमात्रमुच्यते ॥६॥
टी०-उक्तं ह्येतदित्यादिना । यथोक्तं यथासन्निवेशं यथाप्रमाणं चाधोलोक इति । झल्लयोकृतिस्तियग्लोकः। झल्लरी सर्वत्र समतला तुल्यविष्कम्भायामा वादिनविशेषस्तद्वत् तियेग्लोकसनिवेशः, स च विष्कम्भायामाभ्यां रज्जुप्रमाणो जम्बूद्वीपमेरुरुचकमध्य इति । मृदङ्गाकृतिरू लोक इति ॥ मृदङ्गो-वादित्रविशेष उपरिष्टादधश्च संक्षिप्तो मध्ये पृथुस्तद्वदूर्वलोकः, ऊर्ध्वाधः किञ्चिदूनसप्तरज्जुको ब्रह्मलोकाऽधोव्यवस्थितकृष्णराजिमध्यगलो.. कान्तिकदेवनिवासरिष्ठविमानप्रस्तारमध्यस्तिर्यक्पश्चरज्जुप्रमाणो ब्रह्मलोकप्रदेशेऽन्यत्र प्रदेशहान्या अनियतप्रमाण इति । तत्र च त्रितयेऽधोलोकः प्रागाख्यातः,अधुना तिर्यग्लोकप्रसिद्धयर्थमिदमाकृतिमात्रमुच्यते, एवंविधस्तिर्यग्लोक इत्यस्यार्थस्य प्रतीतये सर्वमिदं आअध्यायपरिसमाप्तेः प्रतायते, संस्थानमात्रं , मात्रशब्दः संक्षेपाभिधानार्थः केनचिल्लेशोदेशेन न पुनर्विस्तरेणेति, विस्तरतस्तु द्वीपसागरप्रज्ञप्त्यादिभ्योऽधिगन्तव्य इत्यावेदयति ॥६॥ सूत्रम्-जम्बूदीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥३-७॥
भा०-जम्बूद्वीपायो दीपा लवणादयश्च समुद्राः । शुभव्यवस्था २ नामान इति । यावन्ति लोके शुभानि नामानि तन्नामान
इत्यर्थः । शुभान्येव वा नामान्येषामिति ते शुभनामानः । दीपादनन्तरः समुद्रः । समुद्रादनन्तरो द्वीपः ॥
टी०-जम्बूद्वीपादयो दीपा इत्यादि भाष्यम् । जम्बूद्वीप इति संज्ञासंज्ञिसम्बन्धोऽत्रानादिः, पुरुषप्रवाहानादित्वात्, जम्बूतरोश्च सर्वदा सत्त्वात् लोकसनिवेशस्य च न कदाचिदनीदृशत्वात्, स च शब्दार्थसम्बन्धः पुरुषान्तरव्यवस्थाप्योऽनादिप्रवाहरूपोऽपि व्यवहारक्षमतया सनियुज्यत इति । जम्बूद्वीपादयो द्वीपाः लवणादयः समुद्रा इत्यादिशब्दस्य प्रत्येकमभिसम्बन्धमापादयति । शुभनामान इत्यनेन विशिष्टामेव संज्ञा द्वीपसमुद्राणां प्रतिपादयति, शुभानि च तानि नामानि चेति शुभनामानि प्रशस्ताभिधानानीत्यर्थः । शुभनामानि येषां ते शुभनामानः, एतदेव स्पष्टयति-यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । कियन्ति पुनस्तानि ? असङ्ख्येयानि लोके शुभनामानीति। तचासङ्ख्येयकं विशिष्टमेव परिगृह्यते, तद्यथा-असङ्ख्येयखण्डवालाग्रभूतासङ्ख्येयवर्षकोट्युद्धारकालसूक्ष्मपल्योपमप्रपञ्चनिष्पन्नाधतृतीयसागरोपमोद्धारसमयूराशिप्रमाणतुल्या द्वीपसमुद्राः । शुभान्येव वा नामान्येषामिति एतावद विगानेनावधार्यते, शुभानि हि सर्वेषां द्वीपसमुद्राणां
'ब्रह्महान्या' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org