________________
सूत्रं ४४ ]
स्वोपज्ञभाग्य-टीकालङ्कृतम्
२०३
टी० - ते आदिनीत्यादि । प्रस्तुते तैजसकार्मणे तच्छब्देनाभिसम्बध्येते । ते आदिनी एषामौदारिकादीनां मेढीभूते व्यवस्थिते तानि तदादीनि समुदायसमासार्थः । एतदेव स्पष्टतरं करोति - तैजसकार्मणे यावत् संसारभाविनी आदिनी कृत्वा यावत् संसारं भवितुं शीलमनयोस्ते यावत्संसारभाविनी तैजसकार्मणे आदिनी कृत्वा मेढी भूततया व्यवस्थाप्य शेषाणि औदारिकादीनि एकस्मिन् काले एकस्य जीवस्य भाज्यानिविकल्प्यानि, आ चतुर्भ्य इति यावच्चत्वारि युगपदेकजीवस्य भवन्त्यप्रत्याख्यानपक्षे । अथैकीयमतेन तैजसं प्रत्याख्यातं तदा श्रीणि युगपदेकस्य स्युः, आचार्यस्याभिप्रायः - कार्मणवत् तैजसं प्रायः सर्वदा सर्वस्यास्ति, यतस्ते आदिनी एषामिति विग्रहं कृतवान् । ये तु प्रत्याचक्षते तेषां विग्रहः- तत् आदि कार्मणमेषां तानि तदादीनि । उभयथा च भाष्यं भविष्यति, आचार्यस्य तु विग्रहगतौ कर्मकृत एव योगो भवति, न तु तैजसमित्यत्रैव लब्ध्यपेक्षत्वात् तत् किल नास्ति, तस्यामवस्थायामन्यत्र त्वाचार्यस्य तैजसं सर्वत्रास्ति । तामिदानीमात्माभिप्रायानुसारिणीं भजनां दर्शयन्नाह -
भा०- तथा तैजसकार्मणे वा स्याताम् । १ । तैजसकार्मणौदारिकाणि वा स्युः । २ । तैजसकार्मणवैक्रियाणि वा स्युः । ३ । तैजसकार्मणौदारिकवैक्रियाणि वा स्युः । ४ । तैजसकार्मणौ दारिकाहार काणि वा स्युः । ५ । कार्मणमेव वा स्यात् । ६ । [ कार्मणतैजसे वा स्याताम् । ७ । ] कार्मणौदारिके वा स्याताम् । ७ । कार्मणवैये वा स्याताम् । ८ । कार्मणौदारिकवैक्रियाणि वा स्युः । ९ । कार्मणौदारिकाहारकाणि वा स्युः । १० । कार्मणतैजसौदारिकवैक्रियाणि वा स्युः | ११ | कार्मणतैजसौदारिकाणि वा स्युः । १२ । न तु कदाचिद् युगपत् पञ्च भवन्ति । नापि वैक्रियाहार के युगपद् भवतः । स्वामिविशेषादिति वक्ष्
॥ ४४ ॥
1
टी० – तद्यथेत्यादिना । अन्तर्गतौ तैजसकार्मणे केवले स्तः, इह तु तैजसमाश्रितमाचार्येण, विग्रहगतावित्यत्र पराभिप्रायेण नाश्रितम्, भवस्थतायामेते च औदारिकं चेति त्रीणि युगपत् । अथवा एते च वैक्रियं चेति त्रीणि, तिर्यङ्मनुष्याणां एकजीवे युगपत् तैजस कार्मणौदारिकैः सह लब्धिप्रत्ययवैक्रियशरीर सद्भावे युगपदुविच्छिशरीरसंख्या प्रदेशत्वाच्चत्वारि, चतुर्दशपूर्वधरमनुष्यस्याहारकलब्धौ सत्यां तैजसकार्मणौदारिकैः सह युगपदेवं चत्वारि, पद्मनालतन्तुवदेवाविच्छेदेनैकजीव प्रदेशैश्चतुष्टयमपि प्रतिबद्धमवसेयम् । एवमेतान् पञ्च विकल्पान् स्वमते प्रदर्श्याधुना एकीयमतमादर्शयितुमाह- कार्ममेवास्यात्, नान्तर्गतौ लब्धिप्रत्ययं तैजसमस्ति, लब्धेर्मृतावेव प्रच्यवनात्, अतः कार्मणमेवैकमिति प्रथमो विकल्पः, कार्मणतैजसे वा स्यातामित्ययमत्रानुपपन्नो विकल्पो हेया तु
१' काहारकाणि ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org