________________
२००
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ न च ताभ्यां कदाचित् संसारी विरहित इत्यावेदयन्नाह
सूत्रम्-अनादिसम्बन्धे च ॥ २-४२ ॥ बनायो भा०-ताभ्यां तैजसकामेणाभ्यामनादिः सम्बन्ध इति नादिः सम्बन्धः ॥४२॥
टी०-अनादिसम्बन्धे च । आदिः-प्राथम्यम्, अविद्यमान आदियस्यासावनादिः, सम्बन्धनं-सम्बन्धः, संयोग इत्यर्थः, अनादिः सम्बन्धो ययोः परस्परेण संसारिभिश्च सह ते अनादिसम्बन्धे शरीरके भवतः सुवर्णधातुपाषाणसंयोगवदाकाशपृथिव्या. दिसंयोगवद् वा । चशब्दः सम्बन्धविकल्पार्थः, नैकान्तत एवानादिः सम्बन्धः, किन्तु द्रव्यास्तिकनयावष्टम्भेन तयोरतिदीर्घकालप्रवाहादविच्छेदवर्ती सकलभविष्यदवस्थान्तरबीजभूतो विचित्रपरिणामशक्तिप्रचितपुद्गलद्रव्यैराधीयमानप्रचयापचयोऽनादिकपुरुषप्रयत्ननिर्वयंनानारूपकर्मविकाराविच्छेदः सन्तानविशेपस्तदङ्गीकरणेनायमनादिः सम्बन्धः प्रतीयते । आदिमांश्च पयोयनयवक्तव्यताभ्यन्तरीकृतत्वात् । क्रियत इति कर्म मिथ्यादर्शनाविरतिप्रमादकषाययोगवन्धहेतुसद्भावात् तीव्रमन्दाद्युपपत्तेश्च । प्रतिक्षणमयमुपचीयते पुरुषः कपाययोगाधास्रवद्वारवर्ती दृढतरेः कर्मणा यैस्तत् कथमनादिः सम्बन्धो निरूपयितुं शक्येतातिसाहसिकैरपि, ज्ञानावरणादिकर्मणां च स्थितिकालनियमादवश्यमपूर्वकर्मोपादेयम् , तच्चादिमत्स. म्बन्धमेवावधूतशकं प्रतिपद्यध्वम् , अतश्चशब्दो द्रव्यपर्यायास्तिकनयद्वयान्तर्वर्तितामापादयति सम्बन्धस्य ।।
अधुना भाष्यानुसृतौ यत्न आस्थीयते-ताभ्यामित्यादि भाष्यम् । ताभ्यामुक्तलक्षणाभ्यां तैजसकार्मणशरीरकाभ्यामनादिरकृतकः सन्तत्याऽङ्गीकरणेन संयोगोऽनादेरकृतकस्य जीवस्येति, नहि जीवः केनचिदुत्पादितश्चैतन्यात्मनेति श्रुतिपथमागमद वचो यो वा मन्येत कृतकमात्मानमुपयोगलक्षणमनादिपारिणामिकगाववर्तिनमपत्रपस्तस्यापि वचनमयुक्तिकमसङ्गतपूर्वापरमिति विद्वद्भिरपकर्ण्यम्, अतोऽनादिस्तदनादित्वात् तैजसकार्मणे अप्यनादिसम्बन्धे विद्वांसः प्रमातुमर्हन्ति, अन्यथा परित्यक्तसकलशरीरकलङ्कस्य मुक्तस्येव केन हेतुना संसारिता स्यादिति ? ॥ ४२ ॥
अथैते अनादिसम्बन्धे अपि सति किमशेषसंसारिण एव स्त आहोस्वित् कस्यचिदेवेति ? । अत आह
सूत्रम्-सर्वस्य ॥ २-४३ ॥ भा०-सर्वस्य चैते तैजसकार्मणे शरीरे संसारिणो जीवस्य भवतः।
. एके त्वाचार्या नयवादापेक्षं व्याचक्षते । कार्मणमेवैकमनादिसर्वसंसारिणां । तैजसकार्मणवत्ता
न सम्बन्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजसं
" तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य, कस्य१.नादिसम्बन्धो जीवस्येत्यनादिसम्ब' इति घ-पाठः। २ रुपकर्ण्य ' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org