________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
दिक-नूपुरक-गण्डूपद-शङ्ख- शुक्तिका शम्बूका - जलेका-प्रभृतीनामेकेन्द्रियेभ्यः पृथिव्यादिभ्य एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः । ततोऽप्येकेन वृद्धानि पिपीलिका-रोहिणिका-उपचिका- कुन्थु - तुंबुरुक - पुसबीज कर्पासास्थिका शतपद्युत्पतक-तृणपत्र- काष्ठहारक-प्रभृतीनां त्रीणि स्पर्शन- रसन- घाणानि । ततोऽप्येकेन वृद्धानि भ्रमर-वटर - सारङ्गमक्षिका-पुत्तिका-दंश-मशक- वृश्चिक - नन्द्यावत कीट-पतङ्गादीनां चत्वारि स्पर्शनरसन-प्राण-चक्षूंषि । शेषाणां च तियग्योनिजानां मत्स्योरग- भुजङ्ग-पक्षि-चतुष्पदानां सर्वेषां च नारक- मनुष्य- देवानां पञ्चेन्द्रियाणीति ॥ २४ ॥
१७४
वीन्द्रियादीनामि न्द्रियवृद्धिः
टी० – कृमिपिपीलिकादि सूत्रम् । अयमादिशब्दः प्रत्येकमभिसम्बध्यते कृम्यादिषु, न समुदाय इति भाष्येण दर्शयति- कृम्यादीनामित्यादिना । गतार्थमेतत्, यथासङ्यमे वृद्धानीन्द्रियाणि भवन्ति । सूत्रे त्वेकैकवृद्धानीत्युक्तं, तत्र न ज्ञायते प्रथममेकेन कतमेन वृद्धमिति सन्देहव्यवच्छेदार्थमाह-यथासङ्ख्यम्, येन क्रमेणोपन्यस्तानि तमेवोरकृत्यैकैकेन वृद्धानि भवन्ति, न कमोल्लङ्घनेन । एतदेव पुनः स्पष्टयति-यथाक्रमं - यथानुपूर्वी, तद्यथेत्यनेन तामानुपूर्वी मादर्शयितुमुपक्रमते - कृम्यादीनां - कमिप्रकाराणाम्, आदिशब्दस्य प्रकारार्थत्वात् । अपादिकादयः प्रायः प्रसिद्धाः, एषामेकेन वृद्धे स्पर्शनरसने भवतः, पृथिव्यादिभ्यः सकायादेकेनेन्द्रियेण (रसनेन) वृद्धे सति स्पर्शने द्वे स्पर्शनरसने भवतः, अन्यथा यद्येकेन वृद्धे स्पर्शनरसने सम्बध्यते ततस्त्रीणि प्राप्नुवन्ति, ततोऽप्येकेन वृद्धानीत्यादिभाषितेनापि द्वीन्द्रियेभ्यः पिपीलिकादीनामेकेन प्राणेन सहिते स्पर्शनरसने त्रीणि सन्ति ततो वृद्धानि भवन्ति इति, ततोऽप्येकन वृद्धानि भ्रमरादीनां सुज्ञानम्, शेषाणां च तिर्यग्योनिजानामिति एकेन्द्रियादितिर्यग्योनिजापेक्षया शेषग्रहणम्, एतद्व्यतिरिक्ताः शेषास्तिर्यग्योनयस्तान् विस्तरतो मत्स्यादीन् दर्शयति - सर्वेषां च नारक मनुष्य देवानां पञ्चेन्द्रियाणि । अतिर्यग्योनित्वात् पृथगुपादानं नारकादीनाम् । किं पुनरत्र मनुष्यादीनामित्यभिधाय सूत्रे नारकमनुष्यदेवानामिति विवृतं शेषाणां च तिर्यग्योनिजानामिति, न यथा कृम्यादिषु प्रदीर्यैकदण्डकपाठस्तथेह, उच्यते - कृम्यादिष्वेकजातीया एव सर्वे दण्डकेन निर्दिष्टा इति युक्तम्, इद्द पुनस्तिर्यग्योनयोऽवश्यं पृथग् निवेश्याः भिन्नजातीयत्वान्नारकादिभ्यः, नारकादयोऽपि भिन्नगतिवर्तित्वात् भेदेनैवोपात्ताः । एवं तर्हि मनुष्यनारकादिक्रमे हेतुः नारकदेवानामिति किं नोक्तमादौ मनुष्योपैन्यासात् १ । उच्यते-लोकक्र
तथा
मसन्निवेशमाचार्येणाधाय चेतसि नारकमनुष्यदेवानामित्युक्तम् । अथवा विवरणग्रन्थो यथे
१' जलौका' इति ग-टी- पाठः । २ 'कुन्थुछुरुक' इति क-ख-पाठः । ३ 'वृद्धादीनीति' इति क - ख- पाठः । ४ पन्यसनात् ' इति ग-पाठः ।
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org