________________
१७२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ पपरिग्रहो न पुन वश्रुतमात्रमेकेन्द्रियादीनाम् , अनिन्द्रियाभावेऽपि . द्रव्यभावश्रुते
१० तत्सद्भावात् ॥ ननुच शब्द एव श्रूयमाणत्वाच्छूतव्यपदेशमवरोत्स्यति, किमन्येनान्तर्वर्तिना गणतिथविशेषणक्लेशलभ्येन श्रुतेन परिकल्पितेन कारणान्तरेण च तद्विपयेणेति ? । उच्यते-श्रुतमिति ज्ञानमत्र प्रस्तुतमात्मनः परिणतिविशेषः, शब्दस्तु प्रतिघाताभिभवयुक्तत्वात् मूर्तिमान् रूपाद्यात्मकः श्रोत्रग्रहणलक्षणः स कथं भवितुमर्हति ज्ञानम्, अयमपि हि जातुचिद् द्रव्यश्रुतव्यपदेशमासादयति भावश्रुतकारणत्वाद् वा उपचारवशात्, एतच्च प्रथमाध्याये प्रायो निरूपितमिह तु मनसस्तद्विषयत्वेन नियम्यते, अनिन्द्रियं मनोऽमि
धीयते रूपग्रहणादावस्वतन्त्रत्वादसम्पूर्णत्वादनुदरकन्यावत् , इन्द्रियकायोमनसः स्वरूपम्
- करणाद्वाप्यपुत्रव्यपदेशवत्, तच्चाप्राप्तकारि लोचनवत् , तोयज्वलनचिन्ताकालेऽनुग्रहोपघातशून्यत्वात् , तत्र च द्रव्यमनः स्वकायपरिमाणमात्मापि भावमनः सोऽपि त्वक्पयेन्तदेशव्यापी,भावमनश्च मनुते द्रव्यमनः-समालम्बनद्वारेण यदिन्द्रियपरिणामं तस्य व्यापारानुविधानात् अतस्तस्यैवंरूपस्यानिन्द्रियस्य श्रोत्रप्रणालिकोपात्तशब्दवाच्यविचारिणोऽर्थः श्रुतज्ञानम् , तच्च प्रयोगविशेषसंस्कृतं वर्णपदवाक्यप्रकरणाध्यायादिभेदं मनोऽन्तरेण न करणान्तरं परिच्छेत्तुमलम् , एतद्विहिताविहितानुभयप्राप्तिपरिहारोपेक्षालक्षणपुरुषार्थनिवर्तनक्षमत्वात् मनसा वीक्ष्यमाणं तस्यैवार्थो नेन्द्रियान्तरस्य, यथा धर्मास्तिकायशब्दोच्चारणसमनन्तरमेव पूर्वकृतसङ्केतापेक्षो द्राग् नित्यैकामूर्तगत्यर्थलोकाकाशव्याप्यक्रियार्थ द्रव्यं मनसोपलभ्यते तत् श्रुतमनिन्द्रियस्यार्थ इति स्थितमेतद, भाष्यकारेण च भाष्ये विशिष्टश्रुतपरिग्रहाथै विशेषणमुपात्तम् श्रुतज्ञानमित्यादि । श्रुतज्ञानमित्यात्मपरिणामाख्यानं शब्दव्युदासार्थम् , द्विविधम्-अङ्गबाह्यमङ्गान्तरगतं च, आद्यमनेकभेदमावश्यकादि, इतरदाचारादिद्वादशभेदम् , अनेन श्रुतविशेषाख्यानं न पुनः सर्वमेव श्रुतमनिन्द्रियार्थः। नोइन्द्रियस्यार्थ इत्यनेन पर्यायशब्देन नजथं स्फुटयति । न खल्वेतदिन्द्रियम् इन्द्रियलक्षणानुपपत्तेः, एकदेशस्त्विन्द्रियलक्षणस्य समस्तत एवासम्पूर्णत्वानोघटवन्नोइन्द्रियमुच्यत इति ॥ २२ ॥
उक्तानीन्द्रियाणि सङ्ख्यातः प्रकारतः स्वरूपतो विषयतश्च । अधुना तानि कति कस्य जन्तोर्भवन्तीति निरूपयन्नाह
सूत्रम्-वाय्वन्तानामेकम् ॥ २-२३ ॥ टी०–तत्र सम्बन्धमेव, तावदापादयति सूत्रस्य भाष्यकारः अत्राहोक्तं भवते. त्यादिनाभाष्येण ।
भा०-अत्राह-उक्तं भवता पृथिव्यब्वनस्पतितेजोवायवो द्वीन्द्रियादयश्च १ पलभते' इति ख-पाठः । २ 'वनस्पत्यन्तानामेकम् ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org