________________
१६४
तत्वार्थाधिगमसूत्रम्
[ अध्यायः २
यापेक्षया पश्चापि द्वाभ्यां विशेषाभ्यां भिद्यन्ते निर्वृत्युपकरणविशेषेण लब्ध्युपयोगविशेषेण चेति ॥ ननु चैवं दशेन्द्रियाणि प्रसजन्ति द्विःपञ्चकाभिधानात् ततश्व इन्द्रियाणां मुख्य- नियमोऽनर्थकः षडादिप्रतिषेधश्चेति । उच्यते - यद्येवमभविष्यद् दशेन्द्रियाणीति सूत्रमकरिष्यत् प्राक्तनम्, न चैवमाचरितं तस्मादाश्रयप्रकारकथनमेतद् विवक्षितमेकस्यैव द्वित्वेन यथा हि भवनद्वारं दार्वाकाशपरिच्छेदवदपि न द्वय्यामवृतिष्ठते द्वित्वेऽप्याकाशदारुणोः, प्रयोजनं चास्य निर्गमप्रवेशलक्षणमेकस्यैव, तथा लब्धिनिवृत्युपकरणोपयोगाः क्रमेणामुना चतुष्टयमिन्द्रियलक्षणमविशकलितम्, न चेन्द्रियत्रहुत्वम्, अत एव निर्वृत्यभावाच्छेषत्रययोगाच्च मनोऽनिन्द्रियमुक्तं तस्मादयमदोषोऽतः सुष्ठचे-द्विविधानीन्द्रियाणि भवन्ति । सामान्यतः द्रव्यमयानि द्रव्यात्मकानि द्रव्येन्द्रियाणि, भावेन्द्रियाणि तु भावात्मकान्यात्मपरिणतिरूपाणीति । अत्र च पुद्गलद्रव्यमेवानन्तप्रदेशस्कन्धमात्मप्रयोगापेक्षमायतते निर्वृत्त्युपकरणरूपतया सर्वाणीन्द्रियाण्यनन्तप्रदेशानि असङ्ख्येयात्मप्रदेशाधि - ष्ठितानि च द्रव्यात्मकानि भवन्ति इतरत्र द्वये आत्मपरिणामो भावः प्रयत्नमातिष्ठत इति ॥ १६ ॥ उक्तमिन्द्रियं द्रव्यभावभेदतो द्विविधम् अधुना स्वरूपतो निरूपयितुकाम आह— सूत्रम् - निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ २- १७ ॥
भा०-तत्र निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निर्वृत्तिरङ्गोपाङ्गनामनिर्वर्तितानीन्द्रियद्वाराणि, कर्मविशेष संस्कृताः द्रव्येन्द्रियभेदौ शरीरप्रदेशाः, निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥ १७ ॥
टी० - तत्र निर्वृत्युपकरणे द्रव्येन्द्रियम् । तत्रेत्यनेन भाष्यकारः सूत्रं सम्बन्धयति तत्र द्वितये द्रव्येन्द्रियं तावन्निर्धार्यते स्वरूपभेदाभ्यां निर्वर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानोत्पादः, उपक्रियतेऽनेनेत्युपकरणं निर्वृत्तिरेवेन्द्रियं निर्वृत्तीन्द्रियम्, उपकरणेन्द्रियमप्येवम् । उभयमेतत् पुद्गलपरिणामरूपमपि सदिन्द्रियव्यपदेशमनुते भावेन्द्रियोपयोगकारणत्वात् यस्मात् हि तत्साचिव्यं भावस्यैवोपेलिङ्गने समायाति आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदारुवदेषितव्यम् । तत्र निर्वृत्युपकरणयोः स्वरूपमाविष्करोति भाष्येणैव-निर्वृत्तिरङ्गोपाङ्गनामेत्यादिना । निर्माणनामकर्मान्तर्गतः कर्मभेदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुणः, तथौदारिकादिशरीरत्रयाङ्गोपाङ्गनामकर्मभेदो यदुदयादङ्गान्युपाङ्गानि च निष्पद्यन्ते शिरोङ्गुल्यादीनि, एतत् कर्म - द्वयमुभयरूपं द्रव्येन्द्रियप्रसाधनाय यतते । भाष्यभावना चैवं कार्या ।
निर्वृत्तीन्द्रियविचारः
१ बोल्लिङ्गने ' इति क- स्त्र-पाठः, 'वोपलिङ्गनैः' इति ग-पाठः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org