________________
[अध्यायः
१५४ तत्त्वार्थादिगमसूत्रम्
[ अध्यायः २ प्याचार्येणोक्तम्-'ज्ञानैः पूर्वाधिगतैः ' (सम्बन्ध-का० १२) इत्यादि, तथा भगवत्यामाशीविषोद्देशके (श०८, उ०२, सू० ३१९) “ अपज्जत्तगाणं भंते! जीवा किं नाणी अण्णाणी? तिन्नि गोयमा! नाणा तिन्नि अण्णाणा भयणाए", तथा तस्यामेवैकोनविंशतिशते "मइअण्णाणी णं भंते! मतिअण्णाणभावेणं किं पढमे अपढमे १ गोयमा ! नो पढमे अपढमे, एवं सुअअण्णाणीवि" ॥ ननु चागम एवोपयोगात्मा ज्ञानदर्शनव्यतिरिक्त उक्तः, भगवत्यां द्वादशशते-द्रव्यकषाययोगोपयोगज्ञानदर्शनचरणवीर्यात्मानोऽष्टौ भवन्ति, अत्र चोपयोगात्मा पृथगुपात्तः, स च विग्रहगतो जीवानां भविष्यति, एतदपि वार्तम् ,यस्मात् तस्मिन्नेवात्माऽष्टकाधिकारे (श०१२, उ०१०, सू०४६७ ) उक्तम्-" जैस्स दवियाता तस्स उवयोगाता णियमा अत्थि, जस्स उवयोगाता तस्स नाणाया वा दसणाया वा णियमा अत्थि" एवं सूत्रेऽतिस्पष्टेऽपि विभक्ते न विद्मः कुत इदं तेषां मोहमलीमसधियामागतम् ! अपिच-सूत्रे ज्ञानदर्शने एवोपयोगतामापन्ने बहिराकारपरिणतिनी सती समुपात्ते उपयोगग्रहणेन, न पुनानदर्शनव्यतिरिक्तः कश्चिदुपयोग इति, तथा तु ज्ञानदर्शनात्मैव, क्रोधादिकषायपरिणतः कषायात्मा उच्यते, न तद्व्यतिरिक्तोऽन्यस्तथाऽयमपि भविष्यति । एतेन कर्मानावृतप्रदेशाष्टकाविकृतचैतन्यसाधारणावस्थोपयोगभेदः प्रत्यस्तोऽवगन्तव्यः, तथा विग्रहगतिभाजामपयोप्तकानां च जीवानामागमे लब्धीन्द्रियमुक्तम्- " जीवे णं भंते! गब्भाओ गभं वक्कममाणे किं सइंदिए वक्कमइ अणिदिए वक्कमइ ? गोयमा! सिय सइंदिए सिय अणि दिए, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! दव्विन्दियाइं पडुच्च अणिं दिए वक्कमति, लद्धिन्दियाई पडुच्च सइंदिए वक्कमति" (भग० श०१, उ०७, सू०६१)। तस्मादात्मनोऽवस्थाद्वयवर्तिनोऽवश्यं लब्धीन्द्रियमभ्युपेयम्, तदाश्रितं च मतिज्ञानादि, केवलं बाह्यकरणानिर्वृत्तौ ज्ञानविभागो नास्ति करणकृतस्तत्रेति । अथैतत् स्यात् , न ज्ञानसद्भावमपहुमहे तदा वयम्, किन्तु ज्ञाने सत्यप्युपयोगो नास्तीति ब्रूमः, तदेतत् सुप्ताद्यवस्थास्वपि समानम् , अथवा विलक्षवचनमित्यपकर्ण्यम् । तस्मादवस्थितमिदम्-द्विविध एवोपयोगो ज्ञानदर्शनाख्यः तद्वयतिरिक्तस्तु नास्ति । स इदानी द्विविध उपयोगो यथासङ्ख्यं यथानिर्देशमष्टभेदश्चतुभैदश्च भवति । पुनःशब्दः संख्यानियमार्थः । नातः परं विकल्पमर्हति, ज्ञानोपयोगो दर्शनोपयोगो वा। तमेवाधुना सङ्ख्यानियममाविष्करोति-ज्ञानोपयोगोऽष्टभेद इत्यादिना भाष्येणोद्देशनिर्देशरूपेण । मतिज्ञानोपयोग इति । मतिज्ञानाकारपरिणामस्तदात्मकत्व
१ अपर्याप्ता भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ? त्रीणि गौतम ! ज्ञानानि त्रीणि अज्ञानानि भजनया। २ मत्यज्ञानी भदन्त ! मत्यज्ञानभावेन किं प्रथमोऽप्रथमः ? गौतम | न प्रथमः, अप्रथमः, एवं श्रुताज्ञान्यपि। ३ यस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति, यस्योपयोगात्मा तस्य ज्ञानात्मा वा दर्शनात्मा वा नियमादस्ति।
४ जीवो भदन्त ! गर्भात् गर्भ व्युत्क्रामन् कि सेन्द्रियो व्युत्कामति अनिन्द्रियो व्युत्क्रामति ?, गौतम ! स्यात् सेन्द्रियः स्यादनिन्द्रियः, तत् केनार्थेन भदन्तैवमुच्यते !, गौतम ! द्रव्येन्द्रियाणि प्रतीत्य अनिन्द्रियो व्युत्क्रामति, लब्धीन्द्रियाणि प्रतीत्य सेन्द्रियो व्युत्कामति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org