________________
सूत्र [८]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१४९
क्रियावस्वादयः
सम्भवमायोजनीयाः, क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवम्प्रकाराः सन्ति भूयांसः । अपिः समुच्चये । एवम्प्रकाराश्च अनादिपारिणामिका भवन्ति जीवस्य भावाः, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः । एवमादयोऽपीत्यादि भाष्यम् । एवम्प्रकारा- एवमादयः क्रियावत्त्वप्रकाराः, धर्मादिभिरिति कचिद्, पुद्गलद्रव्यं यथासम्भवमुपदर्शितमेव, तथा केचिदात्मन एव वैशेषिका आदिशब्देनाक्षिप्यन्ते पर्यायोपयोगितादयः । तुशब्दो विशेषकः । धर्मादिविशिष्टास्तत्संमाश्च । इतिः परिसमाप्तौ । अयमादिग्रहणार्थस्यादिग्रहणेन सूचिताः इति गमयति विधृतमर्थमनेन ग्रन्थेन ॥ ये जीवस्यैवेत्यादि ग्रन्थ आत्मन एवासाधारणा ये धर्मा जीवभव्याभव्यत्वलक्षणास्त इह सूत्रे स्वशब्देन यो यस्य वाचकः शब्दो जीवादिस्तेनैवोक्ता इति । एतेनादिशब्दस्य त्रितयपर्यन्तवर्तित्वं व्याख्यातम्, अन्यथा जीवत्वादीनि चेति सूत्रं स्यात् । सूत्रपर्यन्तवर्ती शब्दः समुच्चये । सम्यक्त्वचारित्रादयो जीवस्य स्वतवं जीवत्वादयश्च स्वतत्त्वमिति । इत्येते पञ्च भावा इत्यादि भाष्यम् । इतिशब्दः सकलभावोपसंहारार्थः, एत इति प्रतिपदं ये उद्दिष्टा औपशमिकादयः पञ्चैवाऽन्यूनाधिका भावाः पर्यायान्तराण्यात्मनः त्रिपञ्चाशद्भेदा येषां ते त्रिपञ्चाशद्भेदा भवन्ति आत्मनः स्वतत्त्वं द्विनवाष्टादिसूत्रे (अ० २, सू० २) च सङ्ख्या प्राक् नियता सैवानेनोपसंहृतेति । एते च भावविकल्पा जीवानां यथासम्भवमायोज्याः, न सर्वे सर्वेषामिति, क्षायिकपारिणामिकावेव सिद्धानाम्, औपशमिकवर्जा नारकतिर्यग्योनीनाम्, देवमनुष्याणां पञ्चापि न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद् भवत इति, एवमयमात्मा परिणामैरेभिरौपशमिकादिभिर्युक्तः परिणामी द्रव्यमिति निश्चेतव्यः, नहि श्रद्धानादिलक्षणा: परिणामाः केनचिद् घटादिषूपलब्धपूर्वाः, तस्मादेषां भावानामवश्यं केनचिदन्वयिना पदार्थेन भवितव्यम्, स चात्मेति ॥ ७ ॥
अधुना द्वितीयप्रश्नमतिब हुग्रन्थप्रतानव्यवच्छिन्न गनुसन्धान आह- किञ्चान्यदिति । भावपञ्चकमव्यापित्वान्न परितोषमाधातुमलमस्य श्रोतुः पश्यन्नाचार्यः सकलजीवपदार्थव्यापीदमव्यभिचारि त्रिकालविषयं लक्षणमात्मनो निर्दिदिक्षुः सम्बन्धयति भावपञ्चकाद् अन्यच्च-किं लक्षणमस्याव्यभिचारीति यदप्राक्षीत् तदिदमुच्यते
भा० - उपयोगो लक्षणं जीवस्य भवति ॥
सूत्रम् - उपयोगो लक्षणम् ॥ २८ ॥
टी० - उपयोगो लक्षणं भवति जीवस्येत्येतावद् भाष्यमस्य सूत्रस्य । उपयोगः उपलम्भः, ज्ञानदर्शनसमाधिः ज्ञानदर्शनयोः सम्यक् - स्वविषय सीमानुल्लङ्घनेन धारणं समाधिरुच्यते, अथवा युञ्जनं योगः - ज्ञानदर्शनयोः प्रवर्तनं विषयावधानाभिमुखता, सामीप्यवर्ती योग उपयोगो नित्यसम्बन्ध इत्यर्थः । लक्ष्यतेऽनेनेति लक्षणम्, उपयोगेन लक्ष्यत इति । जीवस्येति कर्मलक्षणा इह
१' सहशाब ' इति ख्र-पाठः ।
उपयोगस्य
लक्षणता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org